SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ [३१ [३१ प्रथमः सर्गः । विचित्रवीर्यस्य अवसानः ॥] . अनुभावात्कुमाराणामित्यभूदुदयो भुवः । भवेद्वाड्मनसातीतः प्रभावो हि महात्मनाम् ॥३६२॥ किन्तु स्त्रीव्यसनेनातिमनोऽभीष्टेन सर्वदा । चिराय मिलितेनेव भूयोऽप्यालिङ्गितो नृपः ॥३६३॥ ततः क्षीणतनुः सोऽभूत्प्रियास्वासक्तमानसः । रामासु भृशमासक्तिः कारणं राजयक्ष्मणः ॥३६४॥ राजयक्ष्मपरीवार: कासश्वासोऽपनिद्रता । रुजोऽन्या अपि राजानमरुजन्ननुवासरम् ॥३६५॥ चित्रविचित्रवीर्यस्तैरातङ्कराकुलीकृतः । सञ्चक्राम परं लोकं कामस्याहो ! दुरन्तता ॥३६६॥ तस्मिन्नस्तमिते सूनुभानौ सत्यवती तदा । शोकान्धकारवैधुर्यमधत्त द्यौरिवाधिकम् ॥३६७।। विललाप च हा वत्स हा ! परिच्छदवत्सल । हा ! कौरवकुलोत्तंस हाऽगमः कामिमां दशाम् ॥३६८॥ इत्थं सा विलपन्त्येव मूच्छिता भूतलेऽपतत् । अस्तोकं शोकसंतापं तदा च न विवेद तम् ॥३६९॥ मूर्छाव्यपगमं प्राप्ता कथञ्चिच्चन्दनादिभिः । स्मृत्वा पुत्रगुणान्भूयो मुक्तकण्ठं रुरोद सा ॥३७०॥ अभ्युपेत्य तदाभ्यर्णमुरस्ताडनपूर्वकम् । रुदन्ति स्म गलद्वाष्पमम्बिकाप्रमुखाः स्नुषाः ॥३७१।। वयमेकपदे स्वामिंस्त्वयास्तं समुपेयुषा ।। दुस्थामवस्थामानीता नलिन्य इव भानुना ॥३७२।। क्रीडादिष्वपि न क्रीडामेकाकी कृतवानसि । इदानीं तु विमुच्यास्मान्किमेको गतवानसि ? ॥३७३।। विप्रयोगासहिष्णूनां त्वदुपास्तिसुखस्पृशाम् । कस्मादकस्मादस्माकमिदं वैमुख्यमागमः ? ॥३७४।। १. नापि इति प्र० द्वय० । २. अपीडयन् ।
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy