________________
३०]
[पाण्डवचरित्रमहाकाव्यम् । धृतराष्ट्र-पाण्डु-विदूरानाम् जन्म ॥ अदीपिष्ट तदादिष्टं निर्मले तस्य चेतसि । अर्पितं दर्पणे भानोभृशमुज्जृम्भते महः ॥३४९॥ शिक्षामादाय तां मूर्जा प्राञ्जलिस्तौ विसृज्य च । राजा धर्मार्थकामेषु समवृत्तिरजायत ॥३५०॥ आबभाराम्बिका गर्भमन्यदोद्दामदोहदम् । सुलग्ने सुतमुद्दीप्तप्रभापूतमसूत च ॥३५१॥ भीष्मेण सत्यवत्या च महोत्सवपुरःसरम् । धृतराष्ट्र इति श्लाघ्यं तस्य नाम विनिर्ममे ॥५२॥ स दधौ जनुषाऽन्धत्वं केनापि प्राच्यकर्मणा । स नास्ति प्राङ्निबद्धे हि यो रुणद्धि शुभाशुभे ॥३५३॥ अम्बालिकाऽपि तनयं तस्यानुजमजीजनत् । आजन्म पाण्डुरोगित्वाद्यः पाण्डुरिति पप्रथे ॥३५४॥ गुणाम्बुनिधिरम्बायास्तनूजः समजायत । यं चक्रुर्गुरवः सर्वविदुरं विदुराभिधम् ॥३५५।। अथ तेषु कुरोर्वंशं जन्मनाऽलङ्करिष्णुषु । शुभैरुज्जृम्भितं भावैः प्रलीनमशुभैः पुनः ॥३५६।। सूचकश्चरटश्चौरः कृपणः पारदारिकः । एते शब्दास्तदा प्रापुरभिधेयेन वन्ध्यताम् ॥३५७॥ लेभे सर्वत्र साम्राज्यमेकच्छवं नयस्तदा । निरन्वयविनाशेन व्यनश्यगुर्नयः पुनः ॥३५८॥ तदा नाधिर्न च व्याधिर्बाधते स्म जनं क्वचित् । न दुर्बलो बलिष्ठेन कश्चनाप्यभ्यभूयत ॥३५९॥ नावृष्टि तिवृष्टिश्च तदा प्रादुरभूद्भुवि ।। ईतिः प्रीतिविघाताय नान्याऽप्यासीत्कुटुम्बिनाम् ॥३६०॥ पुष्यन्ति स्म फलन्ति स्म कालेऽवश्यं महीरुहः । पुष्यन्ति स्म रसोत्कर्षं पुष्पेषु च फलेषु च ॥३६१॥ १. अर्थेन । २. समूलनाशेनेत्यर्थः ।
15
20
25