________________
[२९
प्रथमः सर्गः । भीष्म सत्यवतीभ्यां दत्ता विचित्रवीर्याय शिक्षा ॥]
धर्मार्थावेव न परं कामासक्तस्य नश्यतः । मूलं सर्वपुमर्थानां वपुरप्यपचीयते ॥३३६॥ दुःसहाः पुष्पबाणस्य बाणाः पुष्पमया अपि । यत्तेऽभूवंस्ततः प्रौढान्सोढासि कथमायसान् ? ॥३३७|| व्यधीयत तवैताभिरबलाभिर्बलक्षयः । बलवद्भिस्तु रुद्धस्य न जाने किं भविष्यति ? ॥३३८॥ कुरङ्गाक्षीषु नात्यन्तः प्रसङ्गः सङ्गतः सताम् । अत्यासन्नाभिरेताभिदूर स्यु वो गुणाः ॥३३९।। भीष्मो विचित्रवीर्याय शिक्षामेवं प्रयच्छति । तत्र पुत्रानुशिष्ट्यर्थमाययौ सत्यवत्यपि ॥३४०॥ साऽप्यभाषिष्ट तनयं बाष्पाविलविलोचना । अकस्मादेव मे वत्स ! किं छिनत्सि मनोरथान् ॥३४१॥ मुखं स्नुषाणामुवीक्ष्य मुदमासादयं पराम् । इदानीमस्मि सोत्कण्ठा तवापत्यविलोकने ॥३४२॥ सा नु साम्प्रतमेतेन त्वद्दौर्बल्येन दुर्बला । सहोदयव्ययाः पुत्रैः सवित्रीणां मनोरथाः ॥३४३।। सर्वासां क्षत्रियस्त्रीणां परं वीरप्रसूरहम् । इमं वत्स ! ममोत्सेकं लीलयैव त्वमच्छिदः ॥३४४॥ कुरुवंशकुलस्त्रीणां पुत्रिणीनामहं त्वया । धुरि संस्थापिता वत्स ! त्वयैवोत्थापिताऽधुना ॥३४५।। तत्स्वगोत्रोचिताचारव्यभिचारं समाचरन् । अस्मिंस्त्वत्पूर्वजो ब्रूहि पथि कः पथिकोऽभवत् ? ॥३४६॥ तदाऽऽयुष्मंस्तव ज्यायान्बन्धुर्धत्ते मुदं यथा । यथा सिध्येन्ममेच्छा च प्रवर्तेथास्तथाऽनिशम् ॥३४७॥ अनुशिष्टिमिति श्रुत्वा भ्रातुर्मातुश्च सादरम् । विचित्रवीर्यः स्वं कर्म स्मृत्वा दूरमलज्जत ॥३४८।।
१. स्वस्वगोत्रो० प्र० द्वय० । २. दूरात्० प्र० ।