SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ २८] 101 [पाण्डवचरित्रमहाकाव्यम् विचित्रवीर्यस्य विवाहः ॥ हृष्यन्मनोभिः कन्याभिर्मुक्तामिव विलक्षताम् । जाह्नवीसूनुरनाय तदानीं प्रत्यपद्यत ॥३२४॥ उपेत्य प्रीणयामास स तथा काशिभूपतिम् । यथा विचित्रवीर्याय स्वयं प्रादादसौ सुताः ॥३२५।। स प्रीतिस्फारनेत्राभिस्ताभिर्बालाभिरन्वितः । हस्तिनापुरमारब्धमहोत्सवमुपाययौ ॥३२६॥ स वैवाहिकमाङ्गल्यास्तिस्रस्ताः काशिनन्दिनीः । भ्रात्रा विचित्रवीर्येण प्रमोदादुदवाहयत् ॥३२७॥ ताः प्राप्य नृपतिः प्रेमरसैककनकालुकाः । सिञ्चन्पञ्चापि विषयान्सिषेवे सोऽतिशाड्वलान् ॥३२८॥ इषून्पञ्चापि पञ्चेषुः प्रक्षिपन्नपि लक्षशः । प्रेयसीनामसौ मान्य इति तस्य प्रियोऽभवत् ॥३२९।। कामोऽनासक्तिसेव्योऽपि तेनादृश्यत गौरवात् । प्रायेण यौवनान्धानां सुलभो हि विपर्ययः ॥३३०॥ ततो विचित्रवीर्यस्य संप्राप्तावसरः स्मरः । धर्मार्थो जग्रसे राहुः सूर्याचन्द्रमसाविव ॥३३१॥ स प्रेयसीनां तिसृणां यश्चतुर्थः सदाऽभवत् । तल्लोके लोकपालानां भवति स्म न पञ्चमः ॥३३२॥ कामासक्तस्य तस्येत्थं प्रावर्तत बलक्षयः । अनङ्गेऽतिप्रसङ्गो हि विरङ्गायैव केवलम् ॥३३३॥ क्षीयमाणबलं ज्ञात्वा गाङ्गेयस्तमवोचत । असौ दोषस्त्वयि स्वच्छे वत्स ! त्रासो मणाविव ॥३३४॥ पीनवर्मितसर्वाङ्गान्कथं शत्रून्विजेष्यसे ? । अनङ्गेनापि कल्याणिन् ! यस्त्वमेवमजीयथाः ॥३३५॥ 15 १. आलुः पात्रविशेष 'झारी' इति भाषायाम् ।
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy