________________
[४५३
एकादशः सर्गः । दूत-दुर्योधनयोः संवादः ॥]
विराटो दैवतं किञ्चिदिवाऽऽनन्दाद्दिवानिशम् । किंकुर्वाण इव प्राणैरप्याराधयति स्म तम् ॥३८॥ आगत्य द्रुपदाद्यैश्च सोऽवनीशैरनेकशः । रसाल इव रोलम्बैः शिश्रिये श्रितवत्सलः ॥३९॥ अभिमन्यूत्तरापाणिपीडनप्रक्रमे तदा । पुरे तत्राहमप्युच्चैरेतदुत्कण्ठितोऽव्रजम् ॥४०॥ पाञ्चालप्रमुखास्तस्य सर्वे तत्रामिलन्सुताः । समगंसत भूयांसस्तदन्येऽपि सुहृद्गणाः ॥४१॥ तथापि वदनाम्भोजमपश्यन् सानुजस्य ते । कदाचिदपि कौन्तेयः सुप्रातं नाभिमन्यते ॥४२॥ त्वदीयविरहे नित्यं स ताम्यत्येव केवलम् । बन्धुस्नेहोऽप्यहो काममनर्थः पृथुचेतसाम् ॥४३॥ उत्कण्ठातरलोऽप्युच्चैर्विलद्ध्य समयावधिम् । मा स्म भूद्वैमनस्यं ते किञ्चिदित्यागमन्न सः ॥४४॥ नास्मिन्काचिदभक्तिस्ते नाप्यसौ त्वय्यवत्सलः । तदप्येतदहो ! जातं धिग् विधेर्दुर्विलद्ध्यताम् ॥४५॥ पूर्णेऽपि समये सोऽयमनाहूतस्त्वया खलु । हास्तिनं नैच्छदभ्येतुं महात्मानोऽभिमानिनः ॥४६॥ हर्षादुत्तोरणाशेषद्वारां द्वारवती ततः । उपरुध्य मया कामं निन्ये धर्मनन्दनः ॥४७॥ अधुनाऽपि तदात्मीयं बन्धुमाह्वातुमर्हसि । द्वयोर्बान्धवयोर्मा स्म विरोधो भून्मुधैव वाम् ॥४८॥ विरोधेनाप्युपाय॑न्ते बन्धुहेतोः खलु श्रियः । उदात्तचेतसः क्वापि नोदरम्भरिचेष्टता ॥४९॥ तेभ्यः सुखं निषण्णेभ्यः श्रियः स्वयमुपायनम् । प्रणयेन क्रियन्ते चेत्तन्महत्पुरुषव्रतम् ॥५०॥
१. भ्रमरैः । २. हस्तिनापुरम् ।