________________
5
10
15
20
४५० ]
[ पाण्डवचरित्रमहाकाव्यम् । पाण्डवानां द्वारिकायां गमनम् ॥
एकादशः सर्गः ॥
अथ प्रीतिपरो विष्णुर्गौरवेण गरीयसा । सबान्धवं सराजन्यं निन्ये स्वपुरि धर्मजम् ॥१॥ निर्विष्टयोमिथः स्नेहादेकत्रैव रथे पथि । समपद्यत संवादो द्रौपदीसत्यभामयोः ||२|| सत्यभामा विहस्योच्चैर्जगाद द्रुपदात्मजाम् । ममास्ति महदाश्चर्यं ततः पर्यनुयुज्यसे ॥३॥ अस्मादृशीनामेकोऽपि दुराराधः प्रियः सखि ! | प्रियाणां त्वं तु पञ्चानां कथं चेतोऽनुर्वतसे ? ॥४॥ बभाषे महिषी पाण्डुतनयानां नयोज्ज्वला । सखि ! प्रियवशीकारमन्त्रपारायणं शृणु ॥५॥ वपुर्वाङ्मनसानां मे प्रियेष्वेव लयोऽन्वहम् । यदेव रोचते तेभ्यस्तदेव च करोम्यहम् ||६|| अहं प्रत्यहमश्नामि भुक्तपूर्वेषु भर्तृषु । तेषु स्वपिमि सुप्तेषु प्रतिबुध्ये च पूर्वतः ॥७॥ अभ्युत्थानं च पञ्चानामप्यमीषामुपेयुषाम् । करोमि विनयानम्रं मौलिं चालापकारिणाम् ॥८॥ एतेषामङ्गशुश्रूषां स्वयं विरचयाम्यहम् । करोम्यपत्यवात्सल्यं निजं परिजनं प्रति ॥९॥
अविशेषेण वर्ते च पञ्चस्वपि पतिष्वहम् । तन्मां पञ्चापि मन्यन्ते नित्यं प्राणप्रियां प्रियाः ॥१०॥
१. पृच्छ्यते ।