SearchBrowseAboutContactDonate
Page Preview
Page 464
Loading...
Download File
Download File
Page Text
________________ दशमः सर्गः । अभिमन्यु-पाणिग्रहणम् ॥] [४४९ मिलत्पौरचकोराक्षीलोचनाञ्जलिभिभृशम् । पीतलावण्यसम्भार: कुमारः पुरमाविशत् ॥४७०॥ त्रिभिर्विशेषकम् । दत्ताश्मगर्भकाऽऽकूतचूतपल्लवतोरणम् । रम्भास्तम्भदलैर्वीज्यमानासन्नचरज्जनम् ॥४७१।। मौक्तिकस्वस्तिकोदारद्वारगोमयगोमुखम् । धावद्वाराङ्गनावारवीक्षणाक्षिप्तकार्मुकम् ॥४७२।। प्रमोदमेदुरश्वश्रूविहितार्घादिमङ्गलः । विशति स्म विशांपत्युरभिमन्युनिकेतनम् ॥४७३॥ त्रिभिर्विशेषकम् । कुमारीकरमादत्त मातृगेहे करेण सः । तस्यै दददिवाजन्म प्रेमदक्षिणहस्तकम् ॥४७४॥ कुमारः कौतुकोद्गारपरीहासविकस्वरः । प्रसृत्वरत्रपातारं तारामेलकमन्वभूत् ॥४७५॥ सर्वतेजस्वि तेजांसि परिक्षिप्य स्वतेजसा । जगल्लक्ष्मी ग्रहीष्येऽहमित्येवं कथयन्निव ॥४७६।। विराटकन्यया सार्धमभिमन्युकरात्तया । प्रदक्षिणीकरोति स्म ज्वलन्तं जातवेदसम् ॥४७७॥ युग्मम् । दत्ते स्म हास्तिकाश्वीयस्वर्णरत्नादिकं बहु । कुमाराय विराटेन्दुः पाणिमोचनपर्वणि ॥४७८॥ परां परस्परावासगमनागमनोद्यताः । यादव्यश्च विराट्यश्च पौराणां ददिरे मुदम् ॥४७९।। आनन्दैकमयाः सुधारसमयाः कल्याणसम्पन्मया लक्ष्मीकेलिमया महोत्सवमयाः कौतूहल श्रीमयाः । एतेषां कतिचिद् विराटनगरे तस्मिन्ययुस्तस्थुषा मन्योऽन्यप्रणयेन पुण्यदिवसेष्वग्रेसरा वासराः ॥४८०॥ इति मलधारिश्रीदेवप्रभसूरिविरचिते पाण्डवचरिते महाकाव्ये विराटावस्थाने 25 गोग्रहवर्णनो नाम दशमः सर्गः ॥ १. लेपः । २. वीक्षणं-नेत्रम् । ३. हस्ते गृहीतया ।
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy