________________
४४८]
[पाण्डवचरित्रमहाकाव्यम् । अभिमन्यु पाणिग्रहणम् ॥ पाण्डवाश्च विराटश्च योग्यस्वाजन्यहर्षुलाः ।। उपचक्रमिरे सर्वे कर्म वैवाहिकं ततः ॥४५८॥ तत्तत्कर्म दधानानां यादवीनामितस्ततः । आह्लादिमनसामुच्चैरुच्चेरूर्मङ्गलारवाः ॥४५९॥ कर्मण्यौताहिके सक्ता विराटहरिणीदृशः । जानन्ति स्म श्रमं किञ्चिन्न प्रमोदतरङ्गिताः ॥४६०॥ मन्मथागारशृङ्गारैरप्सरोविसरैरिव । उलूलुचटुलैः प्रीत्यानुयातो यादवीगणैः ॥४६१॥ नवीनकल्पिताकल्पैः सुरकल्पैरनेकशः । विविधं यानमारूढेरन्वितः पृतनाचरैः ॥४६२॥ दिक्कुञ्ज क्रोडविश्रान्तप्रतिश्रुतिभिरुच्चकैः । सोत्साहपटहश्रेणिध्वानैर्बधिरिताम्बरः ॥४६३॥ राकाशशाङ्कदेशीयविधृतातपवारणः । सुप्रतीकप्रतीकाशमारूढो गन्धसिन्धुरम् ॥४६४॥ सह द्रुपदकृष्णाभ्यां पाण्डवैः परिवारितः । अभिमन्युः प्रतस्थेऽथ पाणिपीडनपर्वणि ॥४६५॥ पञ्चभिः कुलकम् । दिशो हि दर्शनानश्चिमूरेणुरजस्वला: । इतीव चक्रे नीरङ्गी तदानीमभिमन्युना ॥४६६॥ विहाराय बहि: स्वैरं कुमारयशसामिव । निस्वाननिस्वनारोदः स्फोटयन्त इवोदगुः ॥४६७।। कुङ्कुमाम्भश्छटाच्छोटैरघण्टापथरेणुकम् । तत्कालमभितः कीर्णपुष्पप्रकरदन्तुरम् ॥४६८॥ नवोत्क्षिप्तैः पताकौघैराचान्तार्कमरीचिकम् । मञ्चन्यञ्चितगीर्वाणगेहाहङ्कारहुकृति ॥४६९॥
20
१. समूहै: । २. उलूलुरुत्सवकाले स्त्रीभिः क्रियमाणः शब्दविशेषः । ३. ईशानविदिग्गजः सुप्रतीकः, तत्सदृशम् । ४. प्राकृतोऽयं शब्दोऽवगुण्ठनवाचकः । अंगुट्ठीइ-णिरङ्गीणीरङ्गीउ' इति देशीनाममाला (सेहरो इति भाषायाम्) । ५. आकाशम् । ६. राजमार्गः ।