________________
दशमः सर्गः । विराटे कृष्णादीनामागमनम् ॥ ]
इति प्रणयगर्भं तां भारतीं सितवाजिनः । प्रीतिकल्लोललोलाक्षो विराटः प्रत्यपद्यत ॥४४४॥ सुभद्रामभिमन्युं च कृष्णं चाह्वातुमुत्सुकः । कञ्चिद्दूतमजातारिः प्राहिणोद् द्वारकां प्रति ॥ ४४५॥ पञ्चभिः सह पाञ्चालैरात्मजैद्रुपदं नृपम् । आनेतुमपरं दूतं काम्पिल्ये प्रजिघाय सः || ४४६॥ तौ दूतवचनात्पाण्डुसुतानाकर्ण्य नन्दिनः । भेजतुर्भृशमानन्दं कृष्ण- द्रुपदभूपती ॥४४७॥ भूयस्तरैर्वितन्वानौ सैन्यैरेकार्णवां महीम् । तौ ततः सपरीवारौ विराटपुरमीयतुः ||४४८|| सानीकेन विराटेन समं सर्वैश्च बन्धुभिः । ततः प्रत्युदगच्छत्तौ प्रीतचेतास्तपःसुतः ॥४४९॥ विराटस्य श्रियो रेजु- र्युधिष्ठिरमधिष्ठिताः । स्वदन्ते हि पयोराशेरापः प्राप्ताः पयोमुचम् ॥४५०॥ विराटस्य गिरा कृष्णद्रुपदौ फुल्ल भूरुहि । अथावासमगृह्णीतां पुरस्योपवने क्वचित् ॥४५१॥ सुभद्रा च स्नुषा नप्ताऽभिमन्युर्भक्तिमन्दिरम् । नप्तारः पञ्च पाञ्चाला अपि कुन्तीं ववन्दिरे ॥४५२॥ कृष्णां मातरमानम्य पाञ्चालैः पञ्चभिः सुतैः । प्रीतिप्रह्वैरनुज्येष्ठं पाण्डवेयाः प्रणेमिरे ||४५३|| चिरसङ्गतयोः प्रीत्या राकाऽश्विन्योरिवाभवत् । मनोज्ञप्रणयाश्लेषो याज्ञसेनीसुभद्रयोः ||४५४|| इलातलमिलन्मौलि प्रणम्य द्रुपदात्मजाम् । पाण्डवाः क्रमशः सर्वे नम्यन्तेऽस्माऽभिमन्युना ॥ ४५५॥ अर्चितः सकुटुम्बोऽपि देवतेव कृतादरम् । आवासे केशवस्यैव प्रीत्याऽतिष्ठद् युधिष्ठिरः ॥ ४५६॥ चिराय मिलिता विष्णोरपुष्णन् पाण्डवा मुदम् । स्मरस्येव वसन्तेन्दुपिकाम्रमलयानिलाः ॥४५७॥
[ ४४७
5
10
15
20
25