________________
४४६] [पाण्डवचरित्रमहाकाव्यम् । विराटे स्वपुत्र्यर्थं प्रार्थितेऽर्जुनोत्तरः ॥
त्वत्प्रसादामृतैः सिक्तास्त्वत्प्रतापार्कतापिताः । मम श्रीवल्लयो देव ! पल्लवैरुल्लसन्त्यमूः ॥४३१॥ मत्कीर्तिवीरुधो यन्न देहिरेऽरिदवानलैः । नूतनाम्भोभृतः सोऽयं खड्गस्य महिमा तव ॥४३२।। अवेदं गोग्रहेऽप्येतत् किञ्चित्तत्वान्तरं खलु । प्राकृतानां न नामेदमीक्ष्यते भुजवैभवम् ॥४३३॥ किमात्मानं निगूयैवं नामवेषविपर्ययैः । स्थितं युष्माभिरागत्य निज एव निकेतने ॥४३४॥ जातसंविदि निगूढं मयि भक्ति वितन्वति । युष्मान्को नाम जानीयाद्वसतोऽत्र स्ववेश्मनि ? ॥४३५॥ परं किं नाम भाग्यानि तादृशान्येव सन्ति मे ? । सेवां वः पादयोः कालमियन्तं तादृशैर्लभे ॥४३६।। इदानीमपि तद्देव स्वप्रतापार्जिता इमाः । श्रियः सहोदरैः सार्धं परिभोगैः कृतार्थय ॥४३७॥ भ्रातृभिः पुरुहूताभैः पत्तिना च मया तव ।। न ता अपि दवीयस्यो हस्तिनापुरसम्पदः ॥४३८॥ ऊर्जितं वो ध्रुवं राज्यादिदानीमतिदुःसहम् । वह्निः प्रदीपावस्थायामधिकं हि प्रदीप्यते ॥४३९॥ राज्यं च जीवितव्यं च दत्तमेतत्त्वयैव मे ।। तत् किमन्यदिदानीं ते करोमि यदुपायनम् ? ॥४४०॥ अर्जुनो मे सुतां कन्यामुत्तरामध्यजीगपत् । तामस्यैवोपदां कुर्वे चेत्प्रसीदस्यनुज्ञया ॥४४१॥ पश्यत्यास्यं ततो ज्येष्ठबन्धौ बीभत्सरभ्यधात् । उत्तरा देव मे शिष्या सुतातुल्यैव तन्मम ॥४४२॥ विराटः कुरुवंश्यैस्तु यदि स्वाजन्यकाम्यति । सौभद्रेयोऽभिमन्युस्तां तदुद्वहतु मे सुतः ॥४४३॥
15
25
१. अतिदूरस्थाः । २. बलम् ।