________________
10
४४४]
[पाण्डवचरित्रमहाकाव्यम् । विराटे पाण्डवानां प्रादुर्भावः ॥ इत्युत्तरगिरं श्रोत्रसुधाकादम्बिनीं नृपः । आसाद्याऽऽसीन्नवोन्मीलन्मेदुरानन्दकन्दलः ॥४०५॥ स प्रेष्य नाट्यशालायां धरित्रीशोऽथ वेत्रिणम् । पराक्रममिवाध्यक्षं धनंजयमजूहवत् ॥४०६॥ तमानन्दाश्रुभिः सार्धं सहैव पुलकाङ्करैः ।।
आयान्तं मुदितः प्रत्युज्जगाम जगतीपतिः ॥४०७॥ हृदयेन नरेन्द्रस्तमालिङ्ग्य निबिडं भुजैः । कामिनीवेषमुन्मोच्य परिहासपुर:सरम् ॥४०८॥ दुकूलानि समं रत्नभूषणैः परिधाप्य च । महीयसि समश्रेण्यामासने जिष्णुमासयत् ॥४०९॥ युग्मम् । जगाद तं महीनाथः पार्थमीषत्कृतस्मितः । वासरोऽयं समग्राणां वासराणां विशेषकः ॥४१०॥ तस्मिन्नपि मुहूर्तोऽयममृतैकमयः खलु । वीरावतंस ! यत्र त्वं किरीटीति निरीक्ष्यसे ॥४११॥ युग्मम् । विश्वेऽस्मिन्नहमेवैकः स्थेयसो यशसः पदम् ।। आत्मागमामृतैर्यस्य त्वं गृहानभिषिञ्चसि ॥४१२॥ राष्ट्रमेतद् विराटाख्यमद्याभूदपशात्रवम् । स्पृष्टं यद्वीरधौरेय ! त्वदीयपदपांसुभिः ॥४१३।। अनुत्तरगुणैवेयमुत्तरा तनया मम । त्वमध्यापयिता यस्याः कलानां कुलदेवता ॥४१४॥ ममासि तनयस्यास्य प्राणत्राणेन सम्प्रति । धनुर्धरधुरीण ! त्वं जीवितस्यापि जीवितम् ॥४१५॥ कङ्क-वल्लवयोस्तन्तिपालस्य ग्रन्थिकस्य च । अमीषामपि चानृण्यं न मे प्राणैरपि क्वचित् ॥४१६॥ सम्प्रत्येव रिपक्षोददक्षैर्दक्षिणगोग्रहे । यशश्च जीवितव्यं च यैर्मदीयमरक्ष्यत ॥४१७॥
20
25
१. कादम्बिनी-मेघघटा । २. अतिस्थिरस्य ।