________________
दशमः सर्गः । अर्जुनोऽभवत् प्रकटः ॥ ]
ससैन्यस्यापि सञ्जातलज्जानीव भुवस्तले । आयुधानि पतन्ति स्म करात् कुरुनरेशितुः ॥ ३९२ ॥ केचिद्धनुरवष्टभ्य रथमाश्लिष्य केचन ।
सूतमालम्ब्य केचिच्च तस्थुर्योधास्तदाऽखिलाः ॥३९३॥ तस्थुषः केतुमाश्रित्य सानीकस्य कुरुप्रभोः । ततस्तात ! मया जिष्णुरुत्तरीयाण्यहारयत् ॥३९४॥ क्षणं नानुबभूवासौ मयाऽपहृतचीवरः । महीयःप्रसरन्मोहसज्जो लज्जारसज्ञताम् ॥३९५॥ अत्रे कारुण्यतस्तत्र संहृते सव्यसाचिना । रिपुसैन्येऽथ चैतन्यमाविरासीत्त्रपाकरम् ॥३९६॥ अथोच्चैश्चकितस्वान्तः सौरभेयीखुरोद्धतैः । संवीताङ्गो रजःपूरैरनेशद् धृतराष्ट्रभूः ॥३९७॥ प्रक्षरन्तीस्ततः क्षीरमुत्सुकाः प्रतिवत्सकान् । आदाय ववले स्वामिन्नर्जुनीरर्जुनोऽखिलाः ॥ ३९८ ॥ सितांशुरुचिसध्रीचीर्मूर्ताः कीर्तिरिवात्मनः । नागरेभ्यः स्तुतीर्गृह्णन्नार्पयद् गाः कपिध्वजः ॥ ३९९॥ शपथैर्देवपादानामहं तेनास्मि वारितः । यदाख्येयो न देवाय व्यापृतोऽहमिहाहवे ॥ ४००॥ सर्वथाप्येतदेव त्वमाचक्षीथाः क्षितीशितुः । यदानीता मया गावो निर्जित्य कुरुवाहिनीम् ॥४०१॥ किं तु मे नैव जिह्वेयमेतदाख्यातुमिश्वरी । स्वशक्तेरतिरिक्तं हि ब्रुवाणोऽप्युपहस्यते ॥ ४०२॥ यन्मृगेण मृगारीणां श्रद्धत्ते कः पराभवम् । मन्यते कुडवस्थाल्यां प्रस्थपाकं न कश्चन ॥ ४०३ ॥ पुनः स्त्रीवेषमादाय स्वयं तु विजयोऽधुना । नाट्यशालामगाद्देवपादाभ्यर्णे प्रहित्य माम् ॥४०४||
१. धेनूः ।
[ ४४३
5
10
15
20
25