SearchBrowseAboutContactDonate
Page Preview
Page 457
Loading...
Download File
Download File
Page Text
________________ ४४२] [पाण्डवचरित्रमहाकाव्यम् । दुर्योधनने तत्सैन्येचार्जुनस्य विद्याप्रयोगः ॥ सन्ति भूयांसि कार्याणि कार्याणि सुहृदस्त्वया । तदात्मानमकाण्डेऽपि किं मुधा गमयिष्यसि ॥३७९॥ इत्युदीर्य सशौण्डीर्यरसोत्कर्षादनिच्छतः । रथं कर्णस्य सङ्ग्रामादपवाहितवान्बलात् ॥३८०॥ अप्रणाशव्रतं वीक्ष्य कर्णमप्यवकीर्णिनम् । मामुत्साह्य ततस्तैस्तैरथवेगाय चाटुभिः ॥३८१॥ मत्पुरस्तादुरात्मायं गच्छत्यादाय गा इति ।। अनुदुर्योधनं क्रुद्धो धावति स्म धनंजयः ॥३८२॥ युग्मम् । आगच्छत्यर्जुने दूराद्धृतराष्ट्राङ्गजन्मनः । तुषैरिव महावायौ सैनिकैरपचक्रमे ॥३८३॥ ततः प्रक्षिप्य गाः पृष्ठे सुभटैकधुरन्धरः । बभूव सितयुग्येन सांयुगीनः सुयोधनः ॥३८४॥ क्षुरप्रानक्षिपत्तस्मिन् भ्रातेति सदयोऽर्जुनः । सर्वप्राणं स बाणांस्तु मुमुचे सव्यसाचिनि ॥३८५॥ तथापि नात्यरिच्यन्त पार्थेषुभ्यस्तदाशुगाः । गजेन्द्रगर्जयः किं नु विजयन्ते घनध्वनीन् ? ॥३८६॥ ततो दौर्योधनं शौर्यमिव साक्षात् कपिध्वजः । चिच्छेद सायकैश्छेकः केतुदण्डं पताकिनः ॥३८७॥ तथापि कौरवे दर्पसर्पदष्टान्तरात्मनि । चैतन्यविकले काममात्मनीनमजानति ॥३८८॥ मनाग् विद्यामनुस्मृत्य जिष्णुरप्राणहारिणम् । कृपालुहृदयोऽमुञ्चद्भागवस्वापनं शरम् ॥३८९॥ युग्मम् । दुर्योधनयशश्चन्द्रलक्ष्मीलीलामुषस्ततः । क्षणादाक्रान्तदिक्चक्राः प्रसस्रुस्तिमिरोर्मयः ॥३९०॥ उच्चरच्चण्डगाण्डीवप्रतापोल्काभयादिव । निखिलानीकनेत्राणि निमीलन्ति स्म निद्रया ॥३९१॥ १. भग्नव्रतम् । २. अर्जुनेन । ३. सर्वे प्राणा यस्मिन् कर्मणि यथा स्यात्तथा सर्वात्मबलपूर्वकमित्यर्थः । ४. 'छेको विदग्धः' इति शब्दार्थचिन्तामणिः । 15 25
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy