________________
दशमः सर्गः । अर्जुनप्रबन्धः ॥ ]
पार्थनिलूनमौलीनां सुरस्त्रीसङ्गमीयुषाम् । कबन्धैर्वैरिवीराणां मुदेव ननृते चिरम् ॥३६६॥ ततः किमपि बीभत्सुशरैराकुलतां गतौ । द्वावपि द्रोणगाङ्गेयौ रणाग्रादपसस्रतुः ॥३६७॥ तन्मनःक्षोभविक्षिप्तमन्दाक्षैरपरैरपि । रथा महारथैर्दूरं निन्यिरे समरोदरात् ॥ ३६८ ॥ नीतां वरूथिनीं पार्थशरौधैर्विशरारुताम् । विलोक्य चकितः कर्णं नियुज्यैतस्य सङ्गरे || ३६९॥
सौरभेयीः पुरस्कृत्य धृतराष्ट्रतनूरुहः ।
लुण्टाक इव साशङ्कः प्रतस्थे स्वपुरीं प्रति ॥ ३७०|| युग्मम् | स बभूव रणारम्भस्ततः कर्णकिरीटिनोः । यन्नैकोऽपि जयन्नीषे जयलक्ष्म्यापि ने द्रुतम् ॥३७१॥ विलोकितुमिवाश्चर्यात्तयोः समरलाघवम् । उभयोरपि शौण्डीर्यादुत्तस्थुर्मौलिकुन्तलाः ॥३७२॥ तावुभावपि सङ्ग्रामरसरोमाञ्चितं वपुः । पुरैव दधतुः कीर्णमन्योन्यविशिखैरिव ॥३७३॥ वीरयोरुभयोर्बाणैः परस्परपराहतैः । पतद्भिरन्तरालेऽपि राशितामुच्चकैर्गतम् ॥३७४॥ गच्छन्सोत्सेकमेकस्य प्रतिवीरशरेरितः । उच्चकैरुच्छलन्बाणो गीर्वाणान् दिव्यनीनशत् ॥३७५॥ सङ्ग्रामसाम्यमालोक्य मुञ्चता मार्गणानथ । सहैव क्रोधयोधेन द्विगुणः फाल्गुनोऽभवत् ॥३७६॥ अथ सारथिरालोक्य फाल्गुनेषुकरालितम् । राधेयमभ्यधान्मूर्ध्नि निधाय प्रणयाञ्जलिम् ॥३७७॥ गतः सुयोधनस्तावद्दूरमादाय धैनुकम् । ततः स्वामिन् किमात्मानमिदानीं खेदयिष्यसि ॥ ३७८ ॥
१. लज्जा । २. नाद्भुतात् प्रतित्रये० ।
[ ४४१
5
10
15
20
25