SearchBrowseAboutContactDonate
Page Preview
Page 455
Loading...
Download File
Download File
Page Text
________________ 5 10 15 20 25 ४४० ] [ पाण्डवचरित्रमहाकाव्यम् । अर्जुनप्रबन्धः ॥ सोऽयं मन्ये नटीभूय दुरनेहसमत्यगात् । प्रविश्य जलधिं रात्रिं देवोऽप्यत्येति भानुमान् ॥३५३॥ तत्सम्प्रत्यस्य सारथ्ये प्रत्यर्थिभ्यो भयं न मे । नारुणोऽर्के हि पृष्ठस्थे तमोभिरभिभूयते ॥३५४॥ विस्मृतातङ्कनिःशङ्कस्ततोऽहं समराजिरे । यथामनसमेतस्य प्रेरयामासिवान्हयान् ॥३५५॥ रथो दीप इवैतस्य धावति स्म यतो यतः । तमांसीवारिशौण्डीरा नालोक्यन्त ततस्ततः ॥ ३५६॥ एकतो दो : सहायोऽयमन्यतः कोटिशोऽरयः । नोत्थितः किन्तु तैः सेहे पेतङ्ग इव तारकैः ॥३५७॥ एकमेवास्य संधानमपश्यं निकटेऽप्यहम् । विस्पष्टं मुष्टिमप्येकं कैशिकन्यायवर्तिनम् ॥३५८॥ निर्वाणप्राणसौहार्दाः क्ष्मातले पतयालवः । लक्षशः प्रतिपक्षास्तु निरीक्षाञ्चक्रिरे मया ॥ ३५९॥ अन्यतेजोऽसहस्यास्य पिधातुं घर्मदीधितिम् । कृपयेव शराश्चक्रुरस्तम्भं दिवि मण्डपम् ॥३६०|| द्विषां गाण्डीवनिर्मुक्तैः काण्डैरेतस्य खण्डिताः । ह्रियैव मार्गणाः क्षोणिरेणुष्वास्यमनीनशन् ॥३६१॥ प्रक्रीडति प्रतापेऽस्य प्रक्षरत्क्षतजा द्विषः । रणधारागृहे धारायन्त्रपुत्रकतां ययुः ॥३६२॥ यावन्तो वैरिवाहिन्यां भटाः प्रत्येकमेव तैः । आत्मनैव समं जिष्णुर्युध्यमानो व्यभाव्यत ॥ ३६३॥ क्रीडत्तत्कीर्तिसीमन्तघुसृणौघैरिवारुणाः । जज्ञिरे रुधिराम्भोभिः सरितः कूलमुद्रुजाः ॥३६४॥ रणे चकार कीलालकूलिनीनामुपर्यसौ । सञ्चाराय चिरं कीर्तेरिव सेतुं शरोत्करैः ॥३६५॥ १. दुःसमयम् । २. सूर्य । ३. कैशिकं केशसमूहः । ४. क्षतजं - रुधिरम् । ५. घुसृणंकुङ्कुमम् । ६. तीरभेदकाः । ७. रुधिरम् ।
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy