________________
10
दशमः सर्गः । अर्जुन वृत्तान्तः ॥]
[४३९ किं पुनः सारथीभावं भजस्व मम सम्प्रति । निहन्मि द्विषतो यावद् गोग्रहग्रहिलौजसः ॥३४०॥ इत्थमेतस्य भारत्या भिया तरलतारकः । स्थितोऽहमुल्लसल्लज्जाभारः सारथ्यमाचरन् ॥३४१॥ लज्जयाऽऽरम्भनिर्वाहो मृत्युर्युद्धेषु लज्जया । लज्जयैव नये वृत्तिर्लज्जा सर्वस्य कारणम् ॥३४२॥ ततः स्त्रीवेषमुन्मुच्य कलयन्कार्मुकं करे । बृहन्नटः स्फुटानन्दनिस्यन्दं ददृशे न कैः ॥३४३॥ विभाव्य दिव्यमूर्ति च तं तदाहमचिन्तयम् । कोऽप्ययं खेचरः क्रीडातिरोहितवपुः किमु ? ॥३४४॥ धनुर्वेदः किमध्यक्षः साक्षाद्वीरो रसो नु किम् । किं वा निःशेषशौण्डीरशौण्डीर्यं पिण्डतां गतम् ? ॥३४५॥ इत्याद्यालोचयन्नास्यखेलदुच्छ्रङ्खलेक्षणः । चिरमाप्तोऽस्मि नो तृप्तिमीक्षमाणो बृहन्नटम् ॥३४६॥ त्रिभिर्विशेषकम् । तेनाथ शिखरोन्माथपटीयः पृथिवीभृताम् । चक्रे विपक्षवक्षोऽश्मटङ्कष्टंकारि कार्मुकम् ॥३४७॥ प्रत्यनीकभटैर्भीष्मभारद्वाजादिभिस्ततः । वितेने विगतानन्दस्पन्दैः सांराविणं क्षणम् ॥३४८।। ऊचेऽन्योन्यं पुरः सोऽयमर्जुनः सोऽयमर्जुनः । वर्षतो विशिखानस्य विलोकयत कौतुकम् ॥३४९॥ परं कस्यापि पश्यामो नेदृशीं सत्त्वसम्पदम् । अवस्थाय भुजस्थाम क्षणं वीक्षिष्यतेऽस्य यः ॥३५०॥ ततोऽमी किं द्विषो युद्धं किमेतन्मृत्युरत्र किम् । विस्मृत्य सर्वमप्येतदानन्दैकमयोऽभवम् ॥३५१॥ अथान्तःस्वान्तमासीन्मे किमयं पाण्डवोऽर्जनः ? । अन्वेनं खलु योद्धारः श्रूयन्ते साम्प्रतं भुवि ॥३५२॥
15
20
25.
१. तिष्ठन्तीत्येव शीलाः स्थास्नवः । २. कोलाहलः ।