________________
४३८]
[पाण्डवचरित्रमहाकाव्यम् । युद्धे अर्जुनवृत्तान्तः ॥ गाङ्गेयोऽयमयं द्रोणः कर्णोऽसावेष सौबलः । सैष दुर्योधनश्चेति विशेषमविदं ततः ॥३२७।। गतं निःसत्त्वतां सत्त्वं विक्रमोऽभूदविक्रमः । जातमोजोऽप्यनोजस्वि गर्वोऽप्यागादगर्वताम् ॥३२८॥ क्षणादत्यजदभ्यासं शस्त्राभ्यास: सभीरिव । अतिष्ठत्कुललज्जाऽपि तदानीं पृष्ठतो मम ॥३२९॥ युग्मम् । केवलं नौरिवाभ्येत्य भयोदन्वति मज्जतः । पलायनमतिर्मेऽभूदैवादभ्यर्णवर्तिनी ॥३३०॥ विस्तीर्णवेपथुर्भीत्या ततोऽवोचं बृहन्नटम् । पुरः पश्यसि पाथोधिप्रतिमां वैरिवाहिनीम् ॥३३१॥ भूयोभिरपि मे शुष्येन्न बाणकलशैरसौ । करैर्हि परिमीयेत किं नाम गगनाङ्गणम् ? ॥३३२॥ पलायिष्ये तदाश्वेव कातरं मा स्म मां वेदः । दावानलोऽपि को नाम वर्षति प्रावृडम्बुदे ? ॥३३३॥ इत्युदीर्य प्रणश्यन्तं स्वामिन्नादाय मां करे । बृहन्नटः ससंरम्भः सावष्टम्भमभाषत ॥३३४॥ कुमार ! युज्यते नैतद्विराटतनयस्य ते । शूरस्यायशसे दृष्टे परानीके पलायनम् ॥३३५॥ पश्चादपि प्रयास्यन्ति प्राणा ने स्थास्नवस्तव । यशस्तद्गत्वरैरेभिरर्जनीयमगत्वरम् ॥३३६।। उत्तरेण रणे नष्टमित्यकीर्तिरवस्तव । कीतिकोलाहलैस्तैस्तैः पितुर्नो तिरयिष्यते ॥३३७॥ प्रकामं यदि नामासि सङ्ग्रामोत्सवभङ्गरः । तथापि मा पलायिष्ठास्तिष्ठत्येवान्तिके मयि ॥३३८॥ जयन्नि(न्ने)व रिपुंश्चेन्मे विभाति भुजविक्रमः । तदानीमवतिष्ठेथाः पलायेथास्त्वमन्यथा ॥३३९॥ १. समीपम् । २. 'वद' प्रतित्रय० । ३. तिष्ठन्तीत्येवं शीलाः स्थास्नवः ।
15