SearchBrowseAboutContactDonate
Page Preview
Page 452
Loading...
Download File
Download File
Page Text
________________ दशमः सर्गः । युद्धे अर्जुनवृत्तान्तः ॥] [४३७ तावद्धावद्भिरभ्येत्य राजमन्दिरचारिभिः । आगच्छत्युत्तरो(रे) दिष्ट्या वधितो भूमिवल्लभः ॥३१४।। युग्मम् । सुतागमश्रुतिसुधाविभागमिव याचितुम् । क्ष्माभृतश्चक्षुषी हर्षादीयतुः श्रवणान्तिकम् ॥३१५।। अद्भिर्नेत्रघटीयन्त्रमुक्ताभिः प्लाविते मुदा । क्षणात्क्षोणीभृतः क्षेत्रे जज्ञिरे पुलकाङ्कराः ॥३१६॥ प्रीत्या पृथ्वीपतिर्यावत्तं प्रत्युद्गन्तुमिच्छति । कुमारस्तावदभ्येत्य पपात पादयोः पितुः ॥३१७॥ ततस्तनयमुत्थाप्य गाढमालिङ्ग्य भूपतिः । रणाङ्गणजयोदन्तं पृच्छति स्म समन्ततः ॥३१८॥ आसीनेषु यथास्थानं सर्वेष्वथ कृताञ्जलिः । कृतज्ञमौलिमाणिक्यं कुमारस्तमचीकथत् ॥३१९॥ यस्मिन् क्लुप्ताङ्गनाकल्पकपटोऽयं बृहन्नटः । जयः किमिति दुर्लम्भस्तत्र सम्भाव्यते रणे ? ॥३२०॥ तादृशा बाहवोऽस्यैव यादृशैर्वैरिनिर्जयः । करा मृगपतेरेव देव ! दन्तावलद्रुहः ॥३२१॥ इत्युत्तरस्य भारत्या विस्मेरितमना भृशम् । अपृच्छन्नृपतिर्मूलात्तमुदन्तं विशेषतः ॥३२२॥ अभ्यधत्तोत्तरः स्वामिन्नभावादन्यसारथेः । सारथिं षण्ढमप्येनमाधाय समरेऽगमम् ॥३२३॥ अनेकरथचीत्कारवाचालवियदञ्चलम् । गन्धसिन्धुरसिन्दूरैलॊहितायितपुष्करम् ॥३२४॥ तुरङ्गमखुरोद्भूतधूलीकन्दलिताम्बुदम् । शौर्यावदातपादातक्ष्वेडाक्षोभितकातरम् ॥३२५॥ प्लावयत् परितो धात्री कल्पान्तजलराशिवत् । तत्रानीकं कुरूणां तदपश्यमविशेषतः ॥३२६॥ त्रिभिर्विशेषकम् । १. शरीरे । २. दन्तावल:-हस्ती । ३. आकाशम् ।
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy