SearchBrowseAboutContactDonate
Page Preview
Page 451
Loading...
Download File
Download File
Page Text
________________ 5 ४३६] [पाण्डवचरित्रमहाकाव्यम् । विराट-धार्तराष्ट्रयोर्युद्धे अर्जुनवृत्तान्तः ॥ सहापि द्रोणकर्णाद्यैः को नु दुर्योधनो मम । पपौ बलिमुकुन्दाद्यैः सहैव मुनिरर्णवम् ॥३०१॥ जयः किन्तु न विज्ञेन रणे सारथिना विना । विश्वदाहक्षमोऽप्यग्निर्न ज्वलत्यनिलादृते. ॥३०२॥ तमभ्यधान्मदा(द)भ्यर्णवर्तिनी मालिनी ततः । योऽयं तूर्यत्रयाचार्यो भगिन्यास्ते बृहन्नटः ॥३०३॥ जानीहि तममुं सर्वसारथीनां शिरोमणिम् । कोटिशोऽयं मया दृष्टः प्रेरयन् रथवाजिनः ॥३०४॥ ततः क्लीबोऽयमित्युच्चैर्विचिकित्सापरोऽपि सन् । त्वत्तनूजः समाहूय वितेने सारथिं रथे ॥३०५॥ गृहीतास्त्रेण तेनाथ प्रयुक्ताश्वमतल्लिकः । सुतोऽभूदभ्यमित्रीणस्तवैकाङ्गभटाग्रणीः ॥३०६॥ तां निशम्य गिरं तस्या भूपतिः सुतवत्सलः । गतमेकाकिनं सूनुमित्यशोचन्मुहुर्मुहुः ॥३०७॥ ह हा बाहुसहायोऽयं क्षीरकण्ठः क्व मे सुतः ? । . क्व चेयं वैरिकासारगाहिनी कुरुवाहिनी ॥३०८॥ तदनीके हि योधानामेकैकस्य पराक्रमैः । हरेर्मनसि वास्तव्या भीतयश्चक्रिरे चिरम् ॥३०९॥ तद्दोर्वीर्यानले कीर्तेरायुष्टोमाय जाग्रति । हा भविष्यति तन्नूनं सूनुर्मे प्रथमाहुतिः ॥३१०॥ इत्यभीक्ष्णं पतिः क्षोणेः शोचन्नूचे ससौष्ठवम् । मालिन्येति न भीः काचित्सहायश्चेद् बृहन्नटः ॥३११॥ भीतिर्नहि भुजङ्गेन्द्रादभ्यर्णस्थे गरुत्मति । न तमस्काण्डभी: क्वापि भास्करे करवर्तिनि ॥३१२॥ इमां बृहन्नटस्तोत्रकोविदां मालिनीगिरम् ।। आकर्ण्य कुपितो यावन्नृपः किमपि जल्पति ॥३१३॥ 15 20 25 १. अगस्त्यः । २. वाहिनी-सेना, पक्षे नदी । ३. आयुष्टोम:-यज्ञविशेषः ।
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy