________________
10
४३४]
[पाण्डवचरित्रमहाकाव्यम् । भीमकृता विराटनृपस्य रक्षा ॥ पुनः काका इवोपेताः संविभक्तुं जयामिषम् । दिशो दिशि पलायन्त सुशर्मपृतनाचराः ॥२७४॥ युग्मम् । पर्वतं कुलिशेनेव देवो गोत्रनिषूदनः । सुशर्मणो मरुत्सूनुर्बिभेद गदया रथम् ॥२७५॥ भीमस्तुतीरिव क्रष्टुमनिर्यान्तीररिं प्रति । क्षिपन्तमङ्गुलीर्वक्त्रे तं जीवन्तममुञ्चत ॥२६॥ विराटभूपति भीमो विधाय गतबन्धनम् । आबध्य पुनरात्मीयैर्गुणैरारोपयद्रथम् ॥२७७॥ पाण्डवानामुदात्तं तद्विभाव्य चरिताद्भुतम् । प्रीतिप्रह्वीभवच्चेताश्चिन्तयामास पार्थिवः ॥२७८॥ कौतुकात्केऽप्यमी देवाः किं धरित्रीमवातरन् ? । विस्मृत्य युगमेतद्वा धात्रा विदधिरे नराः ? ॥२७९॥ किं वा कृतयुगस्यैव नराः कतिचिदुध्धृताः ? । स्फुरत्यैदंयुगीनं हि नामीषां पुरुषव्रतम् ॥२८०॥ न भवेयुः सहायाताश्चेदमी समरे मया । क्रूरैस्तन्मे समाप्येत कथाऽपि परिपन्थिभिः ॥२८१॥ सुशर्माम्भोधरारब्धो मद्यशश्चन्द्रविद्रवः । वल्लवेनानिलेनेव रक्षितः सोऽयमक्षतः ॥२८२॥ विचिन्त्येति महीपालः प्रीतिपर्यश्रुलोचनः ।। निमीलितकराम्भोजकुड्मलस्तानभाषत ॥२८३॥ कश्रीकेलिपल्यङ्क ! वल्लव ! प्रीतिपल्लव ! । तन्तिपाल ! द्विषत्काल ! ग्रन्थिकाप्रतिपन्थिक ! ॥२८४॥ एषा लक्ष्मीरिदं राज्यमदश्च मम जीवितम् । अद्यप्रभृति युष्माकमेवैतत् किमतः परम् ॥२८५।। यौष्माकीणभुजौर्जित्यफलकेनैव सम्प्रति । सत्कीर्तयो ममोत्तेरुः सुशर्मविपदर्णवम् ॥२८६॥ इत्युच्चैः स्तुतिवाचाले भूपाले पुलकाङ्किते । त्रपावनतमूर्धानः पाण्डवेया बभाषिरे ॥२८७।।
15.
25