________________
दशमः स्वर्गः । युद्धे भीमस्यागमनम् ॥]
अथोत्तस्थे बलैः कैश्चित्सारैः स्फारैः सुशर्मणः । दवाग्निनेव निःशेषं वैरिकक्षं दिक्षुणा ॥ २६९ ॥
कृतस्वैरस्वरास्तीव्रशस्त्रज्वालाकरालिताः । विहङ्गमा इवानश्यन् विराटस्यापि सैनिकाः ॥२६२॥ एकाङ्गवीरयोः कामं सङ्गरोऽभूदभङ्गुरः । द्वयोरपि तयोरन्तर्वणं पोत्रीन्द्रयोरिव ॥२६३॥ जयलक्ष्मीः शरासारवर्षदुद्धर्षतेजसोः । एकमप्यनयोरात्ममृत्युभीत्येव नाश्रयत् ॥२६४॥ एकस्मिन्नतिविक्रान्ते स्वर्गिणां पुष्पवृष्टयः । पतन्त्योऽन्यशरैर्मार्गच्छेदच्छेकैर्न सेहिरे ॥ २६५ ॥ समाप्तिमागते शस्त्रप्राग्भारे तावुभावपि । रथादुत्तीर्य दोर्युद्धमतिक्रुद्धौ वितेनतुः ॥२६६॥ विराटं विकटाभोगैर्भुजदम्भोलिकेलिभिः । सुशर्मा हतमर्माणमाबध्य स्वे रथेऽक्षिपत् ॥ २६७॥ अथालोक्य तथा कङ्कः सातङ्कमवनीपतिम् । भीममाहूय दाक्षिण्यक्षीराम्भोनिधिरभ्यधात् ॥ २६८॥ वत्स ! संवत्सरः सोऽयमस्माभिर्गमितोऽखिलः । एतत्साहायकेनैव तदेनं किमुपेक्षसे ? || २६९॥ निहत्य क्रूरकर्माणं सुशर्माणं क्षणादमुम् । विराटपृथिवीनाथं विमोचयितुमर्हसि ॥२७०॥ उद्धर्तव्यः सतामापन्निमग्नोऽनुपकार्यपि । किं पुनः कृतसर्वस्वोपकारोऽयं महामनाः ? ॥२७१॥ इत्यादेशगिरा ज्येष्ठबन्धोः पवननन्दनः । हन्तुकामः सुशर्माणमधावत सबान्धवः ॥२७२॥ विभाव्य भीममायान्तं दोःशृङ्गस्थगदाद्रुमम् । भ्रातृभिर्गण्डशैलाभैर्गिरीन्द्रमिव जङ्गमम् ॥२७३॥
१. शत्रुतृणम् । २. श्रेष्टकिर्योः । ३. ब्राह्मणवेषधारी युधिष्ठिरः ।
[ ४३३
5
10
15
20
25