SearchBrowseAboutContactDonate
Page Preview
Page 447
Loading...
Download File
Download File
Page Text
________________ 10 ४३२] [पाण्डवचरित्रमहाकाव्यम् । विराट-धार्तराष्ट्रयोयुद्धम् ॥ इत्यालोच्य व्यवस्थाप्य कथञ्चन किरीटिनम् । विराटेन समं सर्वे पाण्डवेयाः प्रतस्थिरे ॥२४८॥ युग्मम् । आयुधानि समानीय सहदेवः शमीतरोः । यथात्मीयसमग्राणामग्रजानां तदार्पयत् ॥२४९॥ विराटभूभुजो वाजिसैन्यैर्धावद्भिरुद्धतम् । क्षुण्णा क्ष्मा शरणं रेणुव्याजाद्विष्णुपदं ययौ ॥२५०॥ यमप्रतिममालोक्य नृपमेनममूः स्त्रियः ।। कम्पिष्यन्तेऽधुनेतीव पांसवः पिदधुदिशः ॥२५१॥ मा गाश्चौरतिशंसन्त इव कामं सुशर्मणः । कर्णजाहमगाहन्त तस्य निस्वाननिस्वनाः ॥२५२॥ कानप्यधिकवाचालान्प्रेष्य वैतालिकोत्तमान् । त्वरमाणं सुशर्माणं स्थापयामास पार्थिवः ॥२५३॥ जातशर्मा सुशर्माऽपि विराटाय महीभुजे । निधाय धेनुकं पृष्ठे सर्वैः सैन्यैरतिष्ठत ॥२५४।। उभयोरपि नासीरशौण्डीराणां शराशरि । रणः क्षणमभूत्पीतपतङ्गकरपञ्जरः ॥२५५॥ अलभन्त रणोत्सङ्गबद्धोत्सेका गुणस्पृशः । धानुष्केभ्यस्तदा लक्ष्यमुभयेऽपि हि मार्गणाः ॥२५६।। परस्परस्य विशिखैः खण्डिता शरमण्डली । अधोमुखी सखेदेव भूपल्यङ्कतलेऽपतत् ॥२५७।। सैन्ययोरुभयोर्बाणैर्विलूनावयवावलिः । दुर्धरो रुधिरोद्गारिव्रणः प्रववृते रणः ॥२५८॥ कच्छपायितमूर्धानो मीनायितकराज्रयः । पङ्कजायितपाण्योघाः प्रसनुरसृगापगाः ॥२५९।। चक्रिरेऽथ विराटस्य भटैः सैन्याः सुशर्मणः । पाश्चात्यगामिनोऽम्भोधितरङ्गैनिम्नगोर्मिवत् ॥२६०॥ 15 20 25 १. आकाशम् । २. अग्रसैन्यम् ।
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy