________________
10
४३०] __ [पाण्डवचरित्रमहाकाव्यम् । दुर्योधनस्य विराटनगरे प्रयाणः ॥
कुत्रापि यदि गुप्तोऽपि भवेदनिलनन्दनः । नूनं तन्न सहेतास्य भुजाहङ्कारडिण्डिमम् ॥२२२॥ युध्यमानोऽमुना भीमश्चेन्निहन्येत तन्मम । हतः स्यादहितो हन्यात्स वाऽमुं विदितो भवेत् ॥२२३॥ इत्याकृतवता मल्लग्रामणीः प्रहितो मया । स मेदिनी क्रमात्क्रामन् विराटनगरं ययौ ॥२२४॥ तस्मिंश्च तस्य भूभर्तुः सूपकृद् वृषकर्परम् । जघानेति श्रुतिर्जाने तन्नूनं स वृकोदरः ॥२२५॥ स यत्रास्ति ध्रुवं भाव्यं तत्रान्यैरपि पाण्डवैः ।। राजयक्ष्मा हि न श्वासकासश्लेष्मादिभिविना ॥२२६॥ परं ते चेदभिव्यक्तिमानीयन्ते कथञ्चन । तत्तानुच्छेत्तुमुत्सेको मदीयः सफलो भवेत् ॥२२७॥ विराटपुरसंरोधप्रष्टैरौपयिकैरपि । न ते व्यक्तिमुपेष्यन्ति तैरमीषां हि का व्यथा ? ॥२२८॥ किं तूभयोर्दिशोस्तत्र कृते जीवधनग्रहे । भजेयुः प्रकटीभावं ते दयामयचेतसः ॥२२९॥ अस्माभिस्तद्ग्रहे पूर्वमेकस्यां विहिते दिशि । धाविष्यते धराधीशः स्वसैन्यैरखिलैरपि ॥२३०॥ अन्यस्यां तु कृते तस्मिशून्यतां नगरे गते ।। निर्यास्यन्ति स्थिताः पश्चात् पाण्डवा एव केवलम् ॥२३१॥ तदेवं पाण्डवेयेषु गतेषु स्फुटतां भृशम् । संरप्स्येऽहं तदुच्छेदहेतवे पृतनोर्मिभिः ॥२३२॥ इत्यालोच्य बलैः कैश्चित्सारैर्दन्तुरयन् दिशः । विराटपुरमभ्येतुं प्रतस्थे धृतराष्ट्रभूः ॥२३३॥ तदश्वीयखुरोत्खातरजःस्थगितमण्डलः । तस्यान्यायमिवाद्रष्टुं रविरागाददृश्यताम् ॥२३४॥
15
20
25
१. शत्रुः । २. गर्वः । ३. यतिष्ये ।