________________
[४२९
दशमः सर्गः । वृषकर्परस्य वधः ॥] .
परं श्यालारिरस्यायं हन्तव्योऽस्ति यथा तथा । निनिन्द मेदिनीनाथमिति सर्वस्तदा जनः ॥२०९॥ युग्मम् । कन्दरादारिणोऽद्रीणां भुजास्फोटरवास्तयोः । तदा चक्रुर्जगत्सर्वं विद्राणश्रवणेन्द्रियम् ॥२१०॥ कम्पयन्तौ भुवं पादैर्ददानौ तलहस्तकान् । ततस्तौ विविधैर्भङ्गैर्बद्धमुष्टी प्रसर्पतुः ॥२११॥ आश्वेव हन्तुमीशोऽपि वल्लवो वृषकर्परम् । नेत्रोत्सवाय लोकानां कञ्चित्कालं व्यलम्बत ॥२१२॥ अभूतां शतशस्तत्र तयोर्जयपराजयौ । विन्ध्यधात्रीधराटव्यां मत्तमातङ्गयोरिव ॥२१३॥ वल्लवेनाथ कस्मिश्चिदानीय निजबन्धने । प्राणप्रयाणदीनास्यो बभञ्जे वृषकर्परः ॥२१४॥ वल्लवस्य जये हृष्यल्लोककोलाहलो महान् । उदस्थादवनीभर्तुः सहैव पुलकाङ्करैः ॥२१५।। सहायो विधुरे देवि ! नेदृशः क्वापि लभ्यते । प्रसीदास्मिस्तदित्येवं भूपः कान्तामसान्त्वयत् ॥२१६॥ हतं पौरोगवेनाथ विराटस्य महीशितुः । वृषकर्परमाकर्ण्य चरेभ्यो धृतराष्ट्रभूः ॥२१७॥ कर्ण-दुःशासन-द्रोण-गाङ्गेय-सुबलात्मजान् । प्रद्विष्टमतिरेकत्र मीलयित्वेत्य मन्त्रयत् ॥२१८॥ युग्मम् । कृत्योपायः पुरा चक्रे हन्तुं यः पाण्डुनन्दनान् । सोऽयं सुरोचनस्यैव प्रत्युत प्राभवत्क्षणात् ॥२१९॥ छन्नं च वसतः क्वापि समामेतां त्रयोदशीम् । पाण्डवान्संप्रति ज्ञातुं प्राहैषं वृषकर्परम् ॥२२०।। शतकोटिकठोराङ्गं सर्वस्मिन्नवनीतले । विना भीममलंभूष्णुर्जेतुमेनं न कश्चन ॥२२१॥
१. कष्टे । २. वर्षम् ।