________________
5
10
15
20
25
४२८]
[ पाण्डवचरित्रमहाकाव्यम् । वृषकर्पर-वल्लवयो युद्धम् ॥ आगतो धार्तराष्ट्रस्य राज्ञो मल्लमतल्लिका । वृषकर्परनामास्ति पुरेऽस्मिन्हस्तिनापुरात् ॥१९६॥ जितानेकाहवः सर्वान्स च मल्लानधिक्षिपन् । नाखर्वभुजगर्वेण वल्लवेन सहिष्यते ॥१९७॥ ततः शश्वत्कृताभ्यासः कदाचिदकृतश्रमम् । स एवानुं दुरात्मानं निहनिष्यति वल्लवम् ॥१९८॥ इति पृथ्वीपतिः प्रेम्णा मृदुभिर्मृदुभिः पदैः । सान्त्वयित्वा शनैः प्रैषीदन्तरन्तः पुरः प्रियाम् ॥ १९९॥ मल्लवर्गतिरस्कारकारिणं वृषकर्परम् । वल्लवोऽन्येद्युराह्वास्त नियोद्धुं नृपतेः पुरः ॥ २००॥ ततोऽक्षवाटमृक्षेशवलक्षसिकताचितम् । भूपतिः कारयाञ्चक्रे तन्नियुद्धकुतूहली ॥२०१॥ इमं च परितो मञ्चान्सुरेन्द्रसदनोपमान् । धराधीशोऽधिरोहाय राजन्यानामकारयत् ॥ २०२॥ दिव्येऽन्यस्मिंस्ततो मचे रत्नमण्डपिकातले । मणिसिंहासनेऽभ्येत्य भूमीपतिरुपाविशत् ॥ २०३॥ ततो निदेशमासाद्य विराटवसुधाभुजः सर्वेऽप्यारुरुहुर्मञ्चान्सामन्ताः सपरिच्छदाः ॥२०४॥ यद्यप्यरिजयं भीमे न ते संशेरते क्वचित् । आययुस्तदपि त्रस्तमनसो धर्मादयः ॥ २०५ ॥ स्थेयांसौ बिभ्रतावंसौ कस्तूरीस्तबकाङ्कितौ । चन्दनालिप्तसर्वाङ्गौ चण्डचण्डातकांशुकौ ॥२०६॥ सह्य-विन्ध्याविवाध्यक्षौ मल्ल श्रेणिशिरोमणी । तौ ततोऽविशतां रङ्गं वृषकर्पर - वल्लवौ ॥२०७॥ युग्मम् । असौ कृतश्रमो मल्लो वल्लवस्त्वकृतश्रमः । नियुद्धमनयोर्युक्तं नादधे वसुधाधिपः ॥२०८॥
१. श्रेष्ठमल्लः । २. मल्लयुद्धस्थानम् । ३. ऋक्षेशश्चन्द्रः तद्वत् वलक्षा- उज्ज्वलाः सिकताः ताभिः चितं-व्याप्तम् । ४. संशयं चक्रुः । ५. अतिस्थिरौ । ६. चण्डातकं - वस्त्रविशेषः ।