SearchBrowseAboutContactDonate
Page Preview
Page 442
Loading...
Download File
Download File
Page Text
________________ [४२७ दशमः सर्गः । सुदेष्णायाः विलापः ॥] ज्ञातेययन्त्रितो वश्चेन्नृपोऽन्यायं सहिष्यते । नोदेष्यति शिरःशूलं किमन्यस्यापि कस्यचित् ॥१८३॥ तेऽथाभ्यधुः क्रुधा शक्तिर्यस्यास्ति भुजदण्डयोः । इमामवतु सोऽस्माभिः क्षिप्यमाणां चितानले ॥१८४॥ ततस्तान्निकटं भीमः कमप्युत्पाट्य शाखिनम् । कीचकस्यावधीद्वन्धूञ्छतमप्येकहेलया ॥१८५।। वल्लवेन हताः पेतुः सुदेष्णाबन्धवो भुवि । जघ्निरे साधु दुर्वृत्ता इत्युदस्थात्तु लोकवाक् ॥१८६॥ स्वस्थानं मालिनी प्रेष्य हतारातिमतङ्गजः । गुहामिव हरिीमो ययौ निर्भीर्महानसम् ॥१८७॥ ततो बन्धुवधक्रोधस्फुरदोष्ठभयङ्करा । सुदेष्णा भूपमभ्येत्य बभाषे साश्रुलोचना ॥१८८।। आर्यपत्र ! तवायं मे प्रसादोऽपि विडम्बना । हन्यन्ते बान्धवा यस्याः पश्य कर्मकरैररपि ॥१८९॥ तदेकः कीचकारातिस्तावन्न ज्ञायते क्वचित् । वल्लवस्त्वयमस्त्येव पापस्तद्वन्धुघातकः ॥१९०॥ सैन्यैः समस्तैरप्यद्य न चेदेनं हनिष्यसि । नूनमात्मानमुद्बध्य ततस्त्यक्ष्यामि जीवितम् ॥१९१॥ राजाऽथ सान्त्वयन्वाक्यैः कोमलैः कोमलैः प्रियाम् । पाणिनोदश्रुणी नेत्रे पुंसयन्निदमभ्यधात् ॥१९२॥ देवि ! दुर्नयमप्युच्चस्त्वद्दाक्षिण्यादहं सहे । बन्धूनां ते न खल्वन्ये सहन्ते भुजशालिनः ॥१९३॥ ब्रूषे तथाऽपि यत्किचित्तन्मृगाक्षि ! करोम्यहम् । वल्लवोऽयं परं सर्वं सैन्यं हन्यात् खलीकृतः ॥१९४॥ तस्यान्यस्तु वधोपायः संप्रत्यस्त्येव भामिनि । बुद्ध्यैव हि निहन्यन्ते दुर्जयाः परिपन्थिनः ॥१९५॥ 25 १. प्रोञ्छयन् ।
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy