________________
10
४२६]
[पाण्डवचरित्रमहाकाव्यम् । द्रौपदीवधप्रवृत्तिः ॥ तेषां नेत्रतडागेषु स्वबन्धोर्वधकारिणि । अमर्षग्रीष्मघाँशुरश्रुवारीण्यशोषयत् ॥१६९॥ यदा विलोकयन्तोऽपि भ्रातु ज्ञासिषुद्धिषम् । तदा सर्वेऽपि सम्भूय ते पर्यालोचयन्मिथः ॥१७०॥ पूर्वमप्यस्य जानीमो मालिन्यामनुरागिताम् । भ्रातुर्नः सैव तन्नूनमभवन्मृत्युहेतवे ॥१७१॥ तदीयदयितैरेव बन्धु! नियतं हतः । कथञ्चिन्नोपलभ्यन्ते ते च प्रच्छन्नचारिणः ॥१७२॥ तदेतामेव सैरंध्री सहानेन स्वबन्धुना । चितावैश्वानरे क्षिप्त्वा क्रोधं विध्यापयामहे ॥१७३।। इत्यालोच्य चितावह्नौ निजेन सह बन्धुना । प्रक्षेप्तुमनसोऽभ्येत्य मालिनीमाकृषन्भुजे ॥१७४॥ बलादाकृष्यमाणा तैरिति पूत्कुरुते स्म सा । जयो जयन्तो विजयो जयसेनो जयद्बलः ॥१७५॥ यूयं चेत् क्वापि वर्तध्वे तन्मां रक्षत रक्षत । एतैश्चितानले क्षेप्तुं नीयमानां दुरात्मभिः ॥१७६।। इत्यस्याः कृपणां वाणीमाकर्ण्य पवनात्मजः । क्रोधाद्दूरोच्छलत्फालं धावति स्म महानसात् ॥१७७॥ सोऽब्रवीत् तान् किंमेतां भो ! बलादाकृषथ स्त्रियम् । अस्याः कुत्रापि किं नाम कश्चिदस्त्येव न प्रभुः ? ॥१७८॥ तेऽप्यूचुर्वल्लवैतस्य मृत्यवे सोदरस्य नः । इयमेवाभवत्कोऽपि हन्ता तु ज्ञायते नहि ॥१७९॥ यं निहत्य बलाद्वैरमात्मनः शमयामहे । चितामध्ये निधास्यामस्तदिमामेव पुंश्चलीम् ॥१८०॥ भीमोऽभ्यधाद् व्यधादेवमन्यायं वः सहोदरः । रिरंसुः परवामाक्षी तत्फलं चाप्यवाप्तवान् ॥१८१॥ किं नामाबिभ्यतो यूयं स्त्रीहत्यापातकादपि ? । द्वैतीयीकं कुरुध्वेऽदो लप्स्यध्वेऽस्य न किं फलम् ? ॥१८२॥
15
20
25