SearchBrowseAboutContactDonate
Page Preview
Page 440
Loading...
Download File
Download File
Page Text
________________ [४२५ दशमः सर्गः । कीचकस्य वधः ॥] देवताराधनैस्तैस्तैः कीचकस्याभिलष्यतः । प्रियः सुहृदिवागच्छत् कथंचिद्दिवसात्ययः ॥१५६॥ भाविनीमापदं पश्यन्सुदेष्णासोदरस्य ताम् । शङ्के पङ्कजिनीनाथस्तदुःखादस्तमाययौ ॥१५७।। यथा यथाऽतिपीवानो बभूवुस्तिमिरोर्मयः । पीवतामाप हर्षोऽपि कीचकस्य तथा तथा ॥१५८॥ अथ बिभ्रत्यहङ्कारमन्धकारे वृकोदरः । निर्माय मालिनीवेषमविशन्नाट्यवेश्मनि ॥१५९॥ कीचकोऽपि तमस्काण्डताण्डवाडम्बरोल्वणे । वासयन्नङ्गसौरभ्यैर्दिशस्तस्मिन्नुपागमत् ॥१६०॥ स नखाघातसङ्केतं द्वारि तिष्ठन्नसूत्रयत् । भीमोऽप्यन्तः स्थितस्तूर्णं हुङ्कारमकरोच्छनैः ॥१६१॥ प्रविश्य नृपतेः श्यालस्तरङ्गितमनोभवः । जगाद मुदितो भीमं सैरंध्रीवेषधारिणम् ॥१६२॥ एह्येहि देवि ! सैरंध्रि ! दोम॑णालैहिमोपमैः । अङ्गं निर्वापयालिङ्ग्य मन्मथज्वलितं मम ॥१६३॥ इत्यालपन्तमायान्तं तमभ्येत्य वृकोदरः । सप्रेमेव तथाऽऽलिङ्गद्यथासोऽगात्परासुताम् ॥१६४॥ नाट्यौकसो बहिस्तस्मान्मारुतिः कीचकं भुवि । मांसपिण्डीभवद्देहं गवाक्षेण ततोऽक्षिपत् ॥१६५॥ मरूत्सुतः कृतात्मीयवैरनिर्यातनस्ततः । मेदुरानन्दमागत्य स्वपिति स्म महानसे ॥१६६॥ तथाभूतं च लोकेभ्यः प्रातर्विज्ञाय कीचकम् । शतं शोकोमिविवशास्तस्याधावन्त बान्धवाः ॥१६७|| तं तथाविधमालोक्य महीतलविलोठिनम् । ते सर्वे तारपूत्कारमरुदन् शोकविक्लवाः ॥१६८॥ १. अतिपुष्टाः । २. रोल्वणः प्रत्यन्तरे० ।
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy