SearchBrowseAboutContactDonate
Page Preview
Page 439
Loading...
Download File
Download File
Page Text
________________ ___ 10 ४२४] [पाण्डवचरित्रमहाकाव्यम् । कीचकस्य नाट्यशालायाम् आगमनम् ॥ स च त्वयाऽभियुञ्जानो माननीयो मनस्विनि ! । निहन्तुमनसा मीनमामिषं हि निधीयते ॥१४३॥ ततः किरीटिनो नाट्यशालायां शीलशालिनि ! । गृह्णीयास्तेन सङ्केतं निशीथसमये निशि ॥१४४॥ त्वदीयेनैव वेषेण तत्राहं पुरतो गतः । तज्जीवितं हरिष्यामि निबिडालिङ्गनाच्छलात् ॥१४५॥ इत्यालोच्य रहः कान्तां विससर्ज वृकोदरः । निर्ययौ निभृतन्यस्तपदं साऽपि महानसात् ॥१४६।। अप्सरोजित्वराकल्पशिल्पेनाधिकशालिनी । आकृषन्ती विशेषेण कामिनीनामपीक्षणे ॥१४७॥ द्रावयन्ती मनः कामं कृष्णा लीलावलोकितैः । कीचकाय प्रगे तस्थे राजवेश्मप्रवेशने ॥१४८॥ युग्मम् । तां प्रेक्ष्य पदमप्येकं जातस्तम्भः स नाचलत् । तत्पृष्ठचरणाघातपातकेनेव यन्त्रितः ॥१४९॥ स्वेदोदबिन्दुसंदोहैस्तस्य दन्तुरितं वपुः । द्रौपदीस्पर्शपापेन जातस्फोटमिवाभवत् ॥१५०॥ तद्वपुर्बद्धरोमाञ्चं नरकक्रोडभाविभिः । . सर्वं विद्धमिहैवाभूदय:सूचीचयैरिव ॥१५१॥ कृष्णाऽपि तं तथैक्षिष्ट स्निग्धस्निग्धैरिवेक्षणैः । स प्रकामं यथा मेने तामात्मन्यनुरागिणीम् ॥१५२॥ शनैः शनैः समभ्येत्य दीनैर्दीनैर्वच:क्रमैः । सोऽथ तामर्थयाञ्चक्रे तगिरं साऽप्यमन्यत ॥१५३।। तमभ्यधत्त सैरंध्री निशीथे नाट्यवेश्मनि । स्थास्याम्यहमुपागम्य तत्रागच्छेद्भवानपि ॥१५४॥ इति सङ्केतमादाय द्रौपद्यन्तःपुरं ययौ । कीचकोऽप्युल्लसत्प्रीतिरन्तिकं नृपतेरगात् ॥१५५॥ 15 20 R १. आकल्प:-नेपथ्यम् । २. नरकमध्ये भाविभिः ।
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy