________________
[४२३
दशमः सर्गः । कीचकस्य वधाय भीम-द्रौपद्योः रहः वार्तालापः ॥]
उदासीनवदित्युक्ता द्रौपदी धर्मसूनुना । संवृत्य शोकसंरम्भमन्तःपुरमगात्पुनः ॥१३०॥ कीचकस्यानये तस्मिन्निर्माय गजमीलिकाम् । पृथिवीपतिरास्थानादुत्थायाभ्यन्तरं ययौ ॥१३१॥ तस्यामेव निशीथिन्यामविज्ञाताऽथ केनचित् । जगाम द्रौपदी मन्दपादपातं महानसे ॥१३२॥ चरणाङ्गुष्ठमानम्य याज्ञसेनी शनैः शनैः । तत्र जागरयामास सुखसुप्तं वृकोदरम् ॥१३३॥ सोऽब्रवीत्प्रेयसीं देवि ! किमणि विमुञ्चसि ? । दीर्घदीर्घाश्च निश्वासान्भाषसे चातिगद्गदम् ? ॥१३४॥ साऽप्यूचे पृच्छसि स्वामिन् ! किं नामासंविदानवत् ? । किं न हन्त त्वमद्राक्षीः कीचकाविनयं मयि ॥१३५॥ भवन्तोऽद्यापि जीवन्तमात्मानं मन्वते किमु ? । प्रेयसी पश्यतां येषामपरैः परिभूयते ॥१३६॥ शौर्यं सत्त्वमहङ्कारश्चण्डिमा भुजदण्डयोः । जगाम सर्वमप्येतन्मन्ये लक्ष्म्या सहैव वः ॥१३७॥ पक्षिणोऽपि प्रियां वीक्ष्य संपन्नान्यपराभवाम् । न ह्यलंभूष्णवः सोढुं किं पुनर्मानशालिनः ? ॥१३८॥ इत्यादिभिः प्रियावाक्यैर्भत्सितो मरुतः सुतः । ज्वलन्नपत्रपाऽऽनम्रमौलिर्नीचैरवोचत ॥१३९॥ कथं दुरात्मनो देवि ! तस्यैतावदहं सहे ? । भ्रवः संज्ञा तदाऽऽर्यस्य प्रत्यूहाय च चेद्भवेत् ॥१४०॥ प्रातस्तु यदि कीनाशदासतां लम्भये न तम् । कदापि गणयेद्देवि ! मा स्म तत् पुरुषेषु माम् ॥१४१॥ परं कामातुरः स त्वां प्रातर्भूयोऽपि योक्ष्यते । नारीषु सिद्धये काममवैलक्ष्यं हि कामिनाम् ॥१४२॥
25
१. अज्ञानवत् । २. लज्जाराहित्यम् ।