SearchBrowseAboutContactDonate
Page Preview
Page 434
Loading...
Download File
Download File
Page Text
________________ 10 दशमः सर्गः । पाञ्चाली-सुदेष्णासंवादः ॥] [४१९ उपवेश्य परप्रीत्या तां महत्यासने क्वचित् । नरेन्द्रपत्नी ताम्बूलदानपूर्वमभाषत ॥७८॥ शुभे ! तवायमाकारो न मावस्थानमर्हति । .. किं पुनः पादचारेण विदेशगमनं क्वचित् ? ॥७९॥ ततः कथय कासि त्वं पत्नी कस्यापि भूभुजः ? । कुतश्चेयमवस्था ते विषयान्तरदर्शनी ? ॥८०॥ स्नुषाऽथ पाण्डुराजस्य स्मितपूर्वमभाषत । मालिनी नाम सैरंध्री दास्यस्मि न नृपप्रिया ॥८१॥ मयि प्रमाणमत्युच्चैौपदी धृतपूर्विणी । मुकुन्दमहिषी दधे सत्यभामाऽपि सम्मदम् ॥८२॥ प्रिया विराटभूभर्तुः पाञ्चाली पुनरब्रवीत् । हन्ताहमपि सैरंध्रि ! ब्रूषे यत्तत्करोमि ते ॥८३॥ किन्तु त्वां यदि वीक्षेत कदाचित्क्षितिवासवः । प्रियामपि तदानीं मां मनसा नहि संस्पृशेत् ॥८४॥ भूयोऽप्युवाच पाञ्चाली कृतं ते शङ्कयाऽनया । प्रच्छन्नाः सन्ति यत्पञ्च गन्धर्वाः पतयो मम ॥८५॥ विरूपया विलोकेत यः कश्चन दृशाऽपि माम् । नैव ते तस्य मृष्यन्ति तत्क्षणादेव जीवितम् ॥८६॥ विद्यातिरोहितात्मानः सर्वतः सञ्चरन्ति ते । न च दन्तीव सिंहानां तेषां राजाऽपि किञ्चन ॥८७॥ ततोऽभ्यधत्त भूपालवल्लभा तर्हि मालिनि ! । मम लक्ष्मीस्तवैवेयं यथेच्छमुपभुज्यताम् ॥८८॥ इत्यालप्य दुकूलानि काञ्चनाभरणानि च । परिधाप्यात्मनः पार्वे सुदेष्णा तामतिष्ठिपत् ॥८९॥ मुखवासं वितन्वाना कुर्वती पत्रवल्लरीः । धम्मिल्लं विविधैः पुष्पैर्ग्रथ्नती ललिताः स्रजः ॥९०॥ १. परगृहनिवासिनी कलावती स्त्री । २. कृष्णपट्टराज्ञी । ३. सहन्ते । ४. 'धम्मिल्लविधये पुष्पैर॑थ्नती ललिताः स्रजः' । इति गद्यपाण्डवचरितधृतः पाठः उचितः । 15 20 25
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy