________________
[४१७
दशमः सर्गः । क्रमशः पाण्डवानां सभायामागमनम् ॥]
आमुच्य कञ्चुकं चित्रमाबध्य कबरी वराम् । कर्णयोः कुण्डले न्यस्य नेत्रयोरञ्जनं वहन् ॥५१॥ निर्मायान्यदपि स्त्रैणमाकल्पं नपवेश्मनि । विवेश विस्मयस्मेरैलॊकैरालोकितोऽर्जुनः ॥५२॥ युग्मम् । भूपतिर्वलभौ कुर्वन्केलिचङ्क्रमणक्रमम् । उदीक्ष्य मुदितो वेत्रपाणिना तमजूहवत् ॥५३॥ ऊचे च भद्रे ! स्त्री चेत्त्वं वक्षस्तल्लक्षणं न किम् । यदि वाऽसि पुमानेव कुतः स्त्रीवेषधारिता ? ॥५४॥ आकृतिस्ते पुनः सेयं स्त्रीपुंसव्यतिवर्तिनी । इहागत्य च किं स्थानं विहितं विरहातुरम् ? ॥५५॥ कपिकेतुरभाषिष्ट नास्मि नारी न वा पुमान् । अहं बृहन्नटो नाम किन्तु षण्ढोऽस्मि भूपते ॥५६॥ योषिद्वेषं वहन्नेवमवन्यां विहराम्यहम् । नाट्याचार्यस्तपःसूनोरभूवं राज्यभूषणम् ॥५७॥ तूर्यत्रयरहस्यानामहं वा खलु कोविदः । देवी विश्वत्रयाराध्या सा वा वाचामधीश्वरी ॥५८॥ हेमस्तोमैस्ततस्तैस्तैरभिनन्द्य बृहन्नटम् । भूमीन्दुरुत्तरां पुत्रीमध्यापयितुमार्पयत् ॥५९॥ ततस्तूर्यत्रयाभ्यासहेतोः पुत्र्याः क्षितीश्वरः । उत्तरेण निजं वेश्म नाट्यशालामचीकरत् ॥६०॥ हरिदश्वरथाश्वाभमन्येधुरवनीभुजः । हयं कारयतश्चित्रं वाह्याल्यं चङ्कमक्रमम् ॥६१॥ मांसलांसस्थलो बद्धमौलिः प्रावारवाससा ।। निर्लोमाघ्रिः कशापाणिर्दृढं परिकरं वहन् ॥६२॥ नकुलः कुलशैलाभमूर्तिरागादृशोः पथि । वेत्रिणाचाह्वयत्स्मेरविस्मयस्तं महीपतिः ॥६३॥ त्रिभिर्विशेषकम् । सोऽभ्यधाद्भूभुजा पृष्टस्तपःसूनोर्महीभुजः । सर्वाश्वसाधनाधीशस्तन्त्रिपालाभिधोऽस्म्यहम् ॥६४॥