________________
10
४१६] _ [पाण्डवचरित्रमहाकाव्यम् । पाण्डवानां विराटनगरे वासः ॥
धर्म-न्याय-सदाचार-विवेक-विनयादिभिः । गुणैराकीर्णमेषोऽहं तद्भवन्तमुपस्थितः ॥३८॥ . अजल्पन्नृपतिः कङ्क ! निःशङ्कोऽत्रापि पूर्ववत् । सुखेन तिष्ठ मत्पार्वे क्वाऽऽप्यते त्वादृशः सुहृत् ? ॥३९॥ धन्यः स राजा कौन्तेयो यस्य मित्रं भवादृशम् । सुलभा खलु राज्यश्रीदुर्लभं मित्रमद्भुतम् ॥४०॥ इत्युदीर्य समभ्यर्च्य काञ्चनैरचिताञ्जलिः । विराटभूपतिश्चक्रे सभास्तारं युधिष्ठिरम् ॥४१॥ ज्वलन्निव वपुर्लक्ष्म्या खजं दीं च धारयन् । करवालकरोऽत्युच्चैः सानुमानिव जङ्गमः ॥४२॥ राजपाट्यामुपेताय मध्येनगरमन्यदा । विराटभूभुजे तस्थौ गुरुस्थामा मरुत्सुतः ॥४३॥ युग्मम् । दूरादुर्वीपतिर्भीमं वीक्ष्य मांसलमंसलम् । मुदा नैदंयुगीनाङ्गं वेत्रिणाऽऽह्वाययत्क्षणात् ॥४४॥ सोऽनुयुक्तस्ततो राज्ञा स्वां कथामित्यचीकथत् । वल्लव: सूपकारोऽस्मि भूपतेधर्मजन्मनः ॥४५॥ न केवलमलङ्कारः पौरोगव्यकलैव मे । . ममैव मल्लसंदोहज्येष्ठताऽप्यस्य भूभुजः ॥४६॥ किं तु राज्यपरिभ्रंशात्तस्य भ्राम्यन्नितस्ततः ।। राजन्कलाविशेषज्ञमिदानीं त्वामुपागमम् ॥४७॥ नृपोऽप्यूचे न सूदत्वमस्यामुचितमाकृतौ । कुर्वीत को हि गन्धेभे कक्षभाराधिरोपणम् ॥४८॥ ऊर्जस्विनौ हि ते बाहू पृथिवीरक्षणक्षमौ । तथाऽपीच्छसि यत्कर्तुं तदेव कुरु वल्लव ! ॥४९॥ इत्याभाष्य नृपो भीममानन्द्य कनकोत्करैः । पौरोगवानां सर्वेषामसूत्रयदधीश्वरम् ॥५०॥
15
20
25
१. खजं-भाषायां चमचा । २. पाकशालाध्यक्षत्वकला । ३. कक्षः-तृणम् । ४. पाकशालाऽध्यक्षाणाम् ।