SearchBrowseAboutContactDonate
Page Preview
Page 430
Loading...
Download File
Download File
Page Text
________________ [४१५ 10 दशमः सर्गः । पाण्डवानां विराटनगरे वासः ॥] मध्येऽद्रिकन्दरं तेऽथ पञ्च पञ्चानना इव । विराटस्य विशांभर्तुरन्तनगरमाविशन् ॥२५॥ तिलकान्द्वादशाङ्गेषु करे कुशपवित्रिकाम् । कलयन्नुपवीताङ्कतनुधौतसितांशुकः ॥२६॥ गत्वा राजकुलं कश्चिद्ब्राह्मणस्त्वां दिदृक्षते । इत्यात्मानं तपःसूनुर्वेत्रिणाऽज्ञापयन्नृपम् ॥२७॥ युग्मम् । तथा विज्ञापितो वेत्रिपुङ्गवेन विशांपतिः । तं सभामर्घदानादिपुरःसरमवीविशत् ॥२८॥ विलोकयंस्तमायान्तमिति चान्तरचिन्तयत् । किं स्वयं धर्म एवायं महीतलमवातरत् ? ॥२९॥ न हि ब्राह्मणमात्रस्य क्वचिद् दृष्टेयमाकृतिः । समुद्ररसनामेष महीं शासितुमर्हति ॥३०॥ अभिवाद्य नमन्मौलिस्तं वितीर्णाशिषं पुरः । प्रीत्या परमया पीठे विशामीशो न्यवीविशत् ॥३१॥ जगाद च कुतो ब्रह्मन्नजिह्मब्रह्मवाधिना । आगम्यते त्वया ? को वा भवान्भुवनपावन: ? ॥३२॥ अथावोचदजातारिः कङ्को नाम द्विजोऽस्म्यहम् । भूमिभर्तुस्तपःसूनोः प्रियमित्रं पुरोहितः ॥३३॥ अक्षैश्च दीव्यतस्तस्य सभास्तारोऽस्मि सर्वदा । मदन्यो हि न दक्षोऽभूदक्षद्यूतेऽस्य संसदि ॥३४॥ मयि ग्रामान्तरे याते समानीय निजं पुरम् । कुरुभिः कैतवागारैर्दारितः सोऽखिलां महीम् ॥३५॥ पाण्डवेयास्तदारभ्य बभूवुर्वनवासिनः । राज्यप्रत्याशया तेषामनैषमियतीः समाः ॥३६॥ मायावीति मया राजन् ! श्रितो दुर्योधनो नहि । पाण्डवानामिदानीं तु किंवदन्त्यपि न क्वचित् ॥३७॥ 15 20 25 १. समुद्रः रसना-कटिमेखला यस्याः ताम् । २. सभासद् । ३. वर्षान् ।
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy