________________
10
४१४] [पाण्डवचरित्रमहाकाव्यम् । विराटनगरे पाण्डवानाम् वेषपरावर्तनम् ॥
परं मान्यत्वमाप्यापि विश्वास्यात् क्षितिपेषु न । विधावैवधिकेभ्योऽपि जातु रुष्यन्ति दन्तिनः ॥१२॥ कुर्वन्ननुल्वणं वेषं श्रयन्नुचितमासनम् । अजल्पितोऽप्रजल्पंश्च राज्ञो भवति वल्लभः ॥१३॥ नान्त:पुरपुरंध्रीभिर्न चान्तःपुरचारिभिः । न च द्वेष्यैर्महीशस्य सङ्गच्छेत विशारदः ॥१४॥ यस्य कोपो महाबाधः प्रसादश्च महाफलः । न तस्य मनसाऽपीच्छेद्विप्रियं प्राज्ञसम्मतः ॥१५॥ असूयन्ति हि राजानो जनायानृतवादिने । क्षणादप्यवमन्यन्ते तथा पण्डितमानिनम् ॥१६॥ अम्लानो बलवान् शूरश्छायेवानुगतः सदा । सत्यवादी मृदुर्दान्तः क्ष्मापतेः प्रियतां व्रजेत् ॥१७॥ सर्वं मनसि कृत्वैतद्यः सम्यक् कर्म वेत्ति यत् । स तदेव पुरस्कृत्य श्रयतु क्षितिवल्लभम् ॥१८॥ जयो जयन्तो विजयो जयसेनो जयद्बलः । आतुरे क्वचिदाह्वाननामानीति भवन्तु नः ॥१९॥ इति ज्येष्ठानुशिष्टिं तामोमिति प्रतिपद्य ते । विश्वधानुष्कधौरेयं सव्यसाचिनमूचिरे ॥२०॥ विलोक्य सायुधानस्मान् लोकः पार्थ ! व्यथिष्यते । आयुधानि निधातुं तत्क्वचिदेतानि साम्प्रतम् ॥२१॥ जगाद विजयो येयमुपप्रेतवनं पुरः । निरूप्यते शमी जीर्णा फणिफूत्कारिकोटरा ॥२२॥ लूताजालकरालायामतुच्छच्छदसम्पदि ।। निहितान्यायुधान्यस्यां कोऽप्यवेक्षिष्यते नहि ॥२३॥ इत्युक्त्वा सर्वतेजांसि धारयन्तीव मूर्तताम् । आयुधानि न्यधात्तत्र शमीशाखिनि फाल्गुनः ॥२४॥
१. विधा गजाशनम् । वैवधिको वणिक् । पक्षे विधा-वेतनम् वैवधिको-धृततैलानादिव्यापारी ।
15
20