SearchBrowseAboutContactDonate
Page Preview
Page 428
Loading...
Download File
Download File
Page Text
________________ दशमः सर्गः । पाण्डवानां विराटनगरं प्रति गमनम् ॥] [४१३ दशमः सर्गः ॥ अथ द्वैतवनात्पाण्डुसूनवो देवतागिरा । प्रतस्थिरे गुप्ततमा विराटनगरं प्रति ॥१॥ ते मातरं पुरस्कृत्य मूर्ती नीतिमिवाध्वनि । व्रजन्तोऽनुगता रेजुः साक्षाल्लक्ष्येव कान्तया ॥२॥ नगेन्द्र-नगर-ग्राम-निम्नगाऽऽ-रामसङ्कलाम् । भूयसीं भीमसञ्चारामतिक्रम्य क्रमान्महीम् ॥३॥ नीलदुद्यानकल्लोलिसर: श्रेणिमनोरमे । ते विसटमहीभर्तुः पुरीपरिसरे ययुः ॥४॥ युग्मम् । रामणीयकमारामसर:पुष्करिणीगतम् । पश्यतां पाण्डुपुत्राणां तत्रोच्चैर्मुमुदे मनः ॥५॥ क्वचित्सरसि निर्निद्रनलिनीमालभारिणि । पयःपानादिना तेऽध्वश्रमव्यपगमं व्यधुः ॥६॥ तत्तीरे सहकारस्य नवपल्लवशालिनः । छायायामतिसान्द्रायां तेऽनुज्येष्ठमुपाविशन् ॥७॥ अथारातिपराभूतिस्मरणार्टीकृतेक्षणः । सदैन्यमवदद्वन्धून् धर्मसूर्गद्गदाक्षरम् ॥८॥ वत्साः ! साम्राज्यसौरभ्यसम्भोगसुभगोदयाः ! । युधिष्ठिरेण नीताः स्थ ह हा ! धिक्कामिमां दशाम् ॥९॥ वस्तव्यमस्ति तत्रापि वर्षमेतत्त्रयोदशम् । प्रच्छन्नैर्जनवन्मत्स्यभर्तुः सेवापरायणैः ॥१०॥ ततो निसर्गविज्ञातसर्वसेवाक्रमानपि । स्नेहाद्ब्रवीमि वः किञ्चित्सागरे घनवृष्टिवत् ॥११॥ 15 २०
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy