SearchBrowseAboutContactDonate
Page Preview
Page 427
Loading...
Download File
Download File
Page Text
________________ ४१२] [पाण्डवचरित्रमहाकाव्यम् । पाण्डवानाम् पारणकम् ॥ एवमावेद्य सा तेभ्यः क्षणेनैव तिरोदधे । मुनिश्च स्वर्गिणश्चैव ययुः सर्वे यथागतम् ॥३७७॥ पारणं पाण्डुतनयास्तेनुः पुण्यमयं पुरा । पश्चादन्नमयं चक्रुः शरीरस्थितिहेतवे ॥३७८॥ अर्थिनः प्रीणयामासुस्ते तया वसुधारया । सतां च तोयदानां च सार्वजन्या हि सम्पदः ॥३७९॥ सौरभ्यसारघनसारकणावदातैलॊकंपृणैर्मुनिपतेविमलैर्गुणौघैः । तत्रैव ते विदधतो वदनाधिवासं द्वित्राण्यहानि मुदिता गमयाम्बभूवुः ॥३८०॥ इति मलधारिश्रीदेवप्रभसूरिविरचिते पाण्डवचरिते महाकाव्ये दुर्योधनमोचन कृत्योपद्रवनिवर्तनवर्णनो नाम नवमः सर्गः ॥ १. सर्वजनहिताः । २. कण:-सूक्ष्मः, अवदातः-शुद्धः ।
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy