________________
नवमः सर्गः । निजोटजे आगतमुनेः पाण्डवैकृता भक्तिः ॥ ] वपुष्मदिव चारित्रं मूर्तं तप इवानघम् ।
एत्य तेषां पुरस्तस्थौ मासक्षपणपारणे ॥ ३६४ ॥ युग्मम् । तं तपोधनमालोक्य लोकोत्तरगुणोदयम् ।
पुनः पल्लवितानन्दास्तेऽन्तः स्वान्तमचिन्तयन् ॥३६५॥ एषणीयमिदं वस्तु पात्रमेतत्तपोमयम् । तदयं सुकृतप्राप्यः कौमुदीन्दुसमागमः ॥३६६॥ क्व कुरङ्गारिसञ्चारघोराकान्तारभूरियम् ? । पुण्यैरप्यतिदुर्लम्भः क्व चैष मुनिकुञ्जरः ? ||३६७॥ ततो रूक्षरटद्ध्वाङ्क्षशमीमात्रतरौ मरौ । अकस्मादयमस्माकं ध्रुवं कल्पद्रुसङ्गमः ॥ ३६८॥ इत्युद्दामपरीणामशुद्धिनिधतचेतसः ।
आदाय भाजनान्येते मुनिमेत्य बभाषिरे || ३६९॥ प्रभो ! सुप्रातरद्यैव पुण्यैरद्यैव पुष्पितम् । निजैर्यत्पावितं पादैस्त्वयेदमुटजाङ्गणम् ॥३७०॥ तदिमं शुद्धमाहारं गृहाणानुगृहाण नः । लभ्यतां दैवयोगेन निर्धनैरपि शेवधिः ॥३७१॥ द्रव्यादिशुद्धमाहारं विज्ञायात्यन्तनिस्पृहः । मुनिरप्यादे तादृग्न विराध्यति संयमम् ॥ ३७२॥ तदानीं ताडयामासुर्धुसदो दिवि दुन्दुभिम् । उद्यत्प्रमोदकल्लोलाश्चेलोत्क्षेपं च चक्रिरे ॥ ३७३ ॥ विहितार्थिजनाधारा वसुधारा दिवोऽपतत् । पुष्पगन्धाम्बुवृष्टी च पेततुर्वासितक्षिती ॥३७४॥ अवादीद्देवता काचित्प्रसन्ना तान्नभः स्थिता । दानस्यास्य प्रभावाद्वः समीपे सम्पदोऽखिलाः ॥ ३७५ ॥ विराटनगरे किन्तु वर्षमेतन्त्रयोदशम् । नवाभ्यां वेषकर्मभ्यां प्रच्छन्नाः स्थातुमर्हथ ॥३७६॥
१. सिंहः । २. निधानम् ।
[ ४११
5
10
15
20
25