________________
10
नवमः सर्गः ।। धर्मावतंसदेवस्य वृत्तान्तः ॥] .
[४०९ कृत्वा चेतसि तद्वाचं निषिञ्चामि जलेन वः । युष्मच्चैतन्यलाभाच्च फलितं मे मनोरथैः ॥३३८॥ निष्कारणोपकारी मे स कुत्र शबरोऽधुना ? । इति कन्दलितानन्दः पप्रच्छ नृपतिः प्रियाम् ॥३३९॥ कृती साम्प्रतमत्रैव सोऽभूदिति तयोदिते । दृशौ व्यापारयामास सर्वास्वाशासु पार्थिवः ॥३४०॥ स दूरे शबरस्तावन्न सरस्तन्न तं वटम् । तं भू-नभश्चरं लोकं न चाद्राक्षीन्नरेश्वरः ॥३४१॥ तपस्यासु व्यवस्यन्तमात्मानमुटजान्तिके । मुदितः सानुजन्मानमालोकत स केवलम् ॥३४२॥ पुरुषं च पुरः कञ्चित्काञ्चनद्युतिविग्रहम् । चलन्माणिक्यताटङ्कं सोऽपश्यद्दिव्यमूर्तिकम् ॥३४३॥ अथासौ विस्मयत्रस्यदितिकर्तव्यताजडम् । जगाद मेदिनीनाथं प्रसादविशदाननः ॥३४४॥ शृणु विश्वम्भराधीश ! तदेकमनसा त्वया । योऽयमाराधितो धर्मस्तस्येयं स्फूर्तिवर्णिका ॥३४५॥ यतः सौधर्मवास्तव्यः सुरो वासववल्लभः । अहं धर्मावतंसाख्यो धुर्यो धार्मिकपालने ॥३४६॥ ज्ञात्वाऽहमवधिज्ञानात्तपोनियमशालिनाम् । कृत्योपसर्गमुच्छेत्तुं रभसादागतोऽस्मि वः ॥३४७॥ उत्पाद्य कृत्रिमा सेनामेनां हत्वा च वः प्रियाम् । अपूजयं कशाघातमिषान्मन्दारदामभिः ॥३४८॥ सरोऽपि च तदन्येषु पीयूषप्रतिमोदकम् । युष्मास्वहं विषीचक्रे पुलिन्दश्चाभवं ततः ॥३४९॥ साम्प्रतं मुक्तभूयिष्ठं भवतामपि दुष्कृतम् । निकाचितेष्वपि तपः प्रभवत्येव कर्मसु ॥३५०॥
१. काचितः शिक्ये स्थापित इति कोषः । उन्नत इत्यर्थः । नितरां संचितेषुतीव्राध्यवसायेन बद्धेषु इत्यर्थः संगतः ।
15
20
25