SearchBrowseAboutContactDonate
Page Preview
Page 423
Loading...
Download File
Download File
Page Text
________________ 5 10 15 20 25 ४०८] [ पाण्डवचरित्रमहाकाव्यम् । कृत्योपद्रवमुक्तिः ॥ एतेषां किंनु निश्छद्मा मृत्युश्छद्मकृतोऽथवा ? | इत्यासन्नतरीभूय सम्यग्जानीहि पिङ्गले ! ॥ ३२५॥ तामिमां स्वामिनीवाचं प्रमाणीकृत्य पिङ्गला । युष्मान्पर्यस्य पश्यन्ती पुलिन्देन न्यगद्यत ॥ ३२६॥ त्वादृशां मृतकस्पर्शः पिङ्गले ! नन्वमङ्गलम् । सरस्यमी विषं पीत्वा मृता एव न संशयः ॥३२७॥ यद्यल्पमपि जीवेयुरेते ते चण्डि ! पाण्डवाः । विपक्षक्षयमाधातुं प्रभवेयुस्ततो ध्रुवम् ॥३२८॥ विक्रामन्ति मृतेष्वेव शृगालासरभादयः । जीवत्स्वेव महेभेषु सिंही संरभते पुनः ॥ ३२९॥ गत्वा हन्तु तमेवासौ तद्विप्रं विप्रतारकम् । दुष्प्रयुक्तः प्रयोक्तारमभिचारो हि लुम्पति ॥३३०॥ पिङ्गलाव्यपदेशेन तां गिरं शबरोदिताम् । निशम्य गगनेनैव ययौ व्यावृत्य राक्षसी ||३३१ ॥ युष्माकमन्तिकेऽभ्येत्य भूयोऽपि सममार्यया । विलापान्कुर्वती तांस्तांस्तारतारमरोदिषम् ॥३३२॥ स्मृत्वाऽथ नागराजस्य गिरं स्वं कर्णपङ्कजम् । वीक्ष्य चासंदिहानाऽहमार्यां कुन्तीमवादिषम् ॥३३३॥ देवि ! कर्णावतंसाब्जमद्याप्येतद्विकस्वरम् । तन्नामी नियतं प्राणैर्विमुच्यन्ते सुतास्तव ॥३३४॥ केवलं दधते दूरं परीपाकमुपेयुषा । केनाप्यापद्विवर्तेन ध्रुवं मूर्च्छालताममी ॥ ३३५॥ तत्तस्यैव प्रतीकारः कश्चिदन्तर्विचिन्त्यताम् । एवं वदन्तीं मामेत्य कृपालुः शबरोऽब्रवीत् ॥३३६॥ कृतं ते चिन्तया भद्रे ! नृपकण्ठविलम्बिनीम् । रत्नमालां निधायान्तः कान्तान् सिञ्च सरोऽम्भसा ॥३३७|| १. सरभा - शुनी । २. मन्त्रप्रयोगः ।
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy