________________
10
४०६]
[पाण्डवचरित्रमहाकाव्यम् । युधिष्ठिरस्य मूर्छा ॥ एवं विक्लवमुर्वीशं कश्चिदूचे पुलिन्दकः । भोः ! कापुरुष ! केनापि प्रेयसी ते विलुप्यते ॥२९८॥ उत्तरीयमपाकृत्य कशाभिस्ताड्यते भृशम् । आर्यपुत्रार्यपुत्रेति करुणं साऽपि रोदिति ॥२९९॥ हेतोः कुतश्चिदेते तु मूच्छितास्तव बान्धवाः । सर:समीरणस्पर्शादुत्थास्यन्ति स्वयं क्रमात् ॥३०॥ ततः प्रियतमामाशु शत्रोस्त्रायस्व साम्प्रतम् । कलङ्को हि महान्पुंसां दाराणामप्यरक्षणम् ॥३०१॥ अनेन वचसा तस्य धर्मसूनुः क्रुधा ज्वलन् ।। पयः पीत्वा जवाद्धावन्बन्धूनां सविधेऽपतत् ॥३०२।। तदा तेषामुपागच्छन्मूर्छा काऽप्यतिशायिनी । पञ्चत्वमेव निश्चिक्ये यथा व्योमचरैरपि ॥३०३।। तस्मिन्मू क्षणे तेषामारण्याः पशवोऽपि हि । तृणग्रासादिकं सर्वं सर्वेऽपि मुमुचुः शुचा ॥३०४॥ समं समस्तभूतानां प्रमोदनवकन्दलैः । किञ्चित्क्षणान्तरे तेऽथ नयनान्युदमीलयन् ॥३०५॥ कृत्वाऽम्बु नलिनीपत्रे रत्नमालापवित्रितम् । प्रत्येकं तेऽभिषिञ्चन्तीं द्रौपदी ददृशुः पुरः ॥३०६।। स्ववास:पल्लवाग्रेण वीजयन्ती मुहुर्मुहुः ।। सिञ्चन्तीं चाश्रुभिः कुन्ती ते वीक्षांचक्रिरेऽग्रतः ॥३०७॥ बाष्पप्लावितपक्ष्मान्तैर्नभश्चरवनेचरैः । ते पश्यन्ति स्म रोदस्यौ सङ्कीर्णे स्वजनैरिव ॥३०८।। निविष्टान्ते पटान्तेन प्रमृष्टरजसोऽम्बया । प्रियामप्राक्षुराक्षेपात्प्रत्याशप्रहितेक्षणाः ॥३०९॥ तवापहर्ता पापीयान्स निस्त्रिंशशिरोमणिः । क्व ययौ ? यदिहायासी: सुमनोमालभारिणी ॥३१०।। प्रक्षिप्तरत्नमालेन किं नो नीरेण सिञ्चसि ? । वृत्तान्तमेनमस्माकं द्रुतमावेदय प्रिये ! ॥३११॥ १. व्याकुलम् ।
15
20
25