________________
[४०५
नवमः सर्गः । युधिष्ठिर-विलापः ॥]
बभूवाहमनुल्लङ्घयो युष्माभिः पार्श्ववर्तिभिः । धराभोगःसमर्यादैश्चतुभिः सागरैरिव ॥२८५॥ हा ! वत्स ! भीम ! मां त्यक्त्वा किं शेषे निद्रयाऽनया ? । साम्प्रतं साम्प्रतं किं ते सदु:खं मामुपेक्षितुम् ॥२८६॥ दुर्योधनस्य गदया नोरुभङ्गस्त्वया कृतः । न च दौःशासनं वक्षः क्षुण्णं तन्मां किमत्यजः ? ॥२८७।। हिडम्ब-बक-किर्मीराः कृतान्तातिथयस्त्वया । महाबाहो ! कृता येन तच्छौण्डीर्यं क्व ते गतम् ? ॥२८८॥ सिंहेनेव त्वया मुक्तो वनोद्देश इवाधना । अभूवमहमाक्रम्यो हा ! मृगैरिव वैरिभिः ॥२८९।। हा वत्स पार्थ पार्थक्यं प्राणैरपि न ते मम । इयं कथमवस्था ते जीवत्यपि युधिष्ठिरे? ॥२९०।। किं पूरयसि वत्स ! त्वं पिशुनानां मनोरथान् ? । दृढचण्डिमगाण्डीवं यहूरं तत्यजे त्वया ॥२९१॥ येन मृत्युपरीरम्भं लम्भितास्तलतालवः । अकाण्ड एव गाण्डीवे तत्रानास्था कथं तव ? ॥२९२॥ नाद्यापि विहितं कृष्णापराभवनिशुम्भनम् । त्वमेवं किमु निद्रासि विस्मृतारातिविक्रमः ? ॥२९३॥ इदानीमपि केनापि ह्रियमाणा सर्मिणी । मोचनीया त्वयैवेयं तत्कि स्वपिषि निर्भरम् ? ॥२९४॥ अभवत्पूर्णदेशीया वत्स ! द्वादशवत्सरी । प्राप्तोऽस्यम्बुधिमुत्तीर्य गोष्पदे मज्जनापदम् ॥२९५॥ राधासुतस्य सफलैः सञ्जातमुपयाचितैः । यातोऽसि दैवयोगेन यत्त्वमेतादृशीं दशाम् ॥२९६॥ वत्सौ ! यमौ ! युवां दृष्ट्वा हृदयं मे विदीर्यते । अक्षतोऽहं गतो मातुर्माव्या वक्ष्यामि किं पुरः ? ॥२९७॥
25
१. उचितम् । २. पृथक्त्वम् । ३. निशुम्भनं नाशः । ४. प्रायः पूर्णा ।