________________
5
10
15
20
25
४०४]
[ पाण्डवचरित्रमहाकाव्यम् । भीमस्याऽपि मूर्च्छा युधिष्ठरस्य च विलापः ॥ अभ्यधाद् धर्मजो भीमं बान्धवान्वेषणाकृते । प्रहितस्यार्जुनस्यापि कालो भूयानभूत्कथम् ? ॥ २७२॥ कनिष्ठबन्धुवर्गस्य निसर्गप्रीतिशालिनः । गत्वा जानीहि वृत्तान्तमपतृष्णं च मां कुरु ॥ २७३॥ इति ज्येष्ठगिरा भीमः सरस्तीरमुपेयिवान् । अपश्यद्बान्धवान्प्राप्तान्मृत्योर्नेदीयसीं दशाम् ॥२७४॥ विललाप च हा वत्साः ! किमिदानीमुपस्थितम् ? | इदं वोऽस्त्येकतो दौस्थ्यमन्यतः क्लिश्यते गुरुः ॥ २७५॥ इतश्च ह्रियते कृष्णा केनाप्यस्मद्विरोधिना । इतश्चैकाकिनी माता दुःखं तिष्ठति पृष्ठतः ॥२७६॥ न जाने सममस्माभिर्हतस्य विधेRहो । कौतस्कुतमिदं वैरमेवं द्रुह्यति येन नः ||२७७|| परं पिपासामार्यस्य प्रतिकृत्याम्बुनाऽमुना । अहं वत्साः ! प्रतीकारं विधास्यामि विधेरपि ॥२७८॥ शुचं कृत्वैवमापीय पयस्तृष्णाप्रवासकृत् । गृहीत्वा च व्रजन्नासीत्तुल्यावस्थः स बन्धुभिः ॥२७९॥ स्थित्वाऽतिमहतीं वेलां ततो दध्यौ तपःसुतः । विलम्बते स्म भीमोऽपि कथङ्कारमनादरः ? ॥ २८०॥ तद्गत्वा निखिलाचारचतुरांश्चतुरोऽपि तान् । शौण्डीररिमकलासिन्धून् बन्धूनन्वेषयाम्यहम् ॥ २८९ ॥ इत्यालोच्य शुचाऽऽचान्तचेताः कुन्तीसुताग्रजः । गतस्तत्रानुजान्प्राप्तानद्राक्षीत्तादृशीं दशाम् ॥२८२॥ विलप्य तुमुलं चोच्चैरुवाचात्यन्तविह्वलः ।
वत्सा ! युष्माभिरेकाकी कथं त्यक्तोऽस्मि कानने ? ||२८३ || चतुर्भिरपि युष्माभिर्वैरिभूधरभेदिभिः । दन्तैस्त्रिदशदन्तीव सदैवाहं विजित्वरः ॥ २८४॥
१. समीपस्थाम् । २. अधमस्य ।