SearchBrowseAboutContactDonate
Page Preview
Page 418
Loading...
Download File
Download File
Page Text
________________ नवमः सर्गः । अर्जुनादीनां मूर्च्छा ॥] द्विषं प्रोषिततृष्णस्तु दोष्णोर्बलभरादहम् । कीनाशवेश्म नेष्यामि प्रत्यानेष्यामि च प्रियाम् ॥२५९॥ इत्युदीर्य तपः सूनुस्तस्मिन्सरसि रंहसा । नकुलं सहदेवं च प्रेषयामास वारिणे ॥२६०॥ तावथ त्वरितं गत्वा यथेष्टं पपतुः पयः । कृत्वा च पद्मिनीपत्त्रे चेलतुः पञ्च षान्क्रमान् ॥२६१॥ ततस्तावुच्छलन्मूर्छानि:सहौ पेततुर्भुवि । जन्तवो हि विडम्बयन्ते कर्मभिर्भिन्नमर्मभिः ॥२६२॥ विलम्बमम्बुनः पश्यन् पार्थमूचे युधिष्ठिरः । जलाय प्रहितौ वत्स ! वत्सौ चिरयतः कथम् ? || २६३ || जवात्तद्गच्छ वृत्तान्तं जानीहि च कनीयसोः । तूर्णमानीय पानीयं मुषाण च तृषां मम ॥ २६४॥ तडागमथ जेङ्घालो जगाम च धनंजयः । स्वांसाविव कनीयांसौ पेतिवांसौ ददर्श च ॥२६५॥ तावालोक्य तथाऽवस्थौ पार्थः पृथुलपूत्कृतः । पर्यदेवत हा ! वत्सौ ! केनेमां गमितौ दशाम् ? ॥२६६ || द्रुतमुत्तिष्ठतं वत्सौ ! नन्वार्यः खिद्यतेतमाम् । तस्मै तृष्णातुरायैतदुपढौकयतं पयः ॥२६७॥ एतां तूष्णीकतां वत्सौ ! मुक्त्वा कथयतं मम । कृतमत्याहितं केन निगृह्णाम्येष येन तम् ॥२६८॥ यद्वा पिपासामार्यस्य पूर्वं व्यपनयाम्यहम् । ततो विपदमेतां वा प्रतिकर्तास्मि यत्नतः ॥ २६९॥ इत्युदीर्यार्जुनः साश्रुकणेहत्य पयः पपौ । बन्धुहेतोर्गृहीत्वा च प्रतस्थे कियतीं भुवम् ॥२७०॥ अश्रुमिश्रं वहन्नीरं कनिष्ठान्तिकमागतः । तार्तीयिकस्तयोरासीत्सोऽपि मूर्च्छाविसंस्थुलः ॥२७१॥ १. नष्टतृष्णः । २. शीघ्रगतिः । ३. पतितौ । ४. तृष्टिपर्यन्तम् । [ ४०३ 5 10 151 20 25
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy