________________
४०२]
5
10
[पाण्डवचरित्रमहाकाव्यम् । द्रौपद्याः हरणं, युधिष्ठिरस्य च तृषा ॥ त्यक्त्वा चमूं तां क्रुद्धास्तेऽभ्येयुः कान्तापहारिणम् । जविना वाजिना सोऽपि ध्वजिनीमध्यमध्यगात् ॥२४६॥ एकतस्तन्नृपानीकमन्यतः पञ्च पाण्डवाः । तथापि बलिनां तेषां न क्षोभस्य लवोऽप्यभूत् ॥२४७॥ क्व रे यासि क्व रे यासि प्रेयसीमपहृत्य नः ? । इति व्याहृत्य पार्थेन तमनु प्रेषिताः शराः ॥२४८॥ उद्यतैर्युगपत्पातुं सेनां सप्तार्णवीमिव । चक्रे तपःकृशीयोभिस्तैरगस्तीयितुं स्पृहा ॥२४९॥ यदा ते सन्निदधते दधते च पराक्रमम् । तदा स नृपतिः कृष्णां कशाघातैरताडयत् ॥२५०॥ तेन न्यक्कारतापेन शिर:स्थेनांशुमालिना । तपसा चाभवत्तेषामुदन्या तालुशोषिणी ॥२५१॥ तेन तर्षप्रकर्षेण क्लान्तोऽतीव तपःसुतः । बभाषे बान्धवान्वत्साः ! तृष्णा मां बाधतेऽधिकम् ॥२५२॥ सुशाद्वलदलश्रेणिव्याख्यातजलसन्निधेः । असौ पश्यत वामेन दृश्यते निकटो वटः ॥२५३॥ इन्द्रनीलशिलानीलैः पत्रैर्नेत्रप्रियङ्करैः । दृष्टोऽपि बन्धुवदूरं न्यग्रोधो मां धिनोत्ययम् ॥२५४॥ पथिकाश्वासनाहेतुः सेतुरेतस्य वामतः । शंसत्यसौ पिपासार्तवितीर्णावसरं सरः ॥२५५॥ अमी वञ्जल-हारीत-जीवंजीव-कपिञ्जलाः । एतस्योपरि कूजन्ति जलवैभवबन्दिनः ॥२५६॥ एतानि मृगयूथानि निर्यान्ति प्रविशन्ति च । ध्रुवमेतस्य निर्दोषं स्वाद्यं चाचक्षते पयः ॥२५७॥ एषोऽपि द्रौपदीदस्युर्विलोक्यास्मानवस्थितान् । यावद्विलम्बमानोऽस्ति तावदानीयतां पयः ॥२५८॥
15
20
25
१. सेनामध्यम् । २. तृषा ।