SearchBrowseAboutContactDonate
Page Preview
Page 415
Loading...
Download File
Download File
Page Text
________________ ४००] [पाण्डवचरित्रमहाकाव्यम् । कृत्योपद्रवः ॥ वशीकृतेन्द्रियग्रामा विधायोत्कटिकासनम् । आत्मारामं मनः कृत्वा कदाचित्तेऽवतस्थिरे ॥२२०॥ कदाचनापि चक्रुस्ते स्थिता गोदोहिकासने । अर्हत्तत्वैकलीनान्त:करणाः कर्मणां क्षयम् ॥२२१॥ कायक्लेशनिसृष्टाङ्गाः शुचयो ब्रह्मचारिणः । एवं निर्गमयामासुर्वासराणि क्रमेण षट् ॥२२२॥ किरीटी त्वेकपादेन प्रतिमामास्थितस्तदा । मन्त्रराजैकतानात्मा निन्ये षड्दिवसीमपि ॥२२३॥ अधिष्ठायोटजक्रोडं दिनान् षडपि सादरम् । निष्ठाप्राप्तमनुष्ठानं कुन्ती कृष्णा च चक्रतुः ॥२२४॥ कृत्योपसर्गसोत्कण्ठाः सप्तमे त्वह्नि पाण्डवाः ।। सर्वे धर्मं व्यधुर्ध्यानं निधायास्त्राणि सन्निधौ ॥२२५॥ उज्झितः शान्तचेतोभिस्तैस्तदा चिरसंस्तुतः । अस्त्रव्याजाद्रसो वीरस्तदुपास्तिमिवाकरोत् ॥२२६॥ अथ पाण्डुसुतैः पांसुपूरो दूरप्रसृत्वरः । अभितः करभीकण्ठरोमधूम्रो व्यलोक्यत ॥२२७॥ अतिजङ्घालमुत्तालफालग्रस्तनभस्तलम् । तैरवीयमनल्पीयः प्रेक्षाञ्चक्रे समन्ततः ॥२२८॥ जितोद्दामतडिद्दामवर्षद्वर्षास्विवाम्बुदाः । सिन्दूरिण स्रवद्गण्डास्तैरदृश्यन्त दन्तिनः ॥२२९॥ अथ वेणुलतां पाणौ बिभ्राणाः क्रूरमूर्तयः । केचन द्वा:स्थवर्गीणास्तानागत्य बभाषिरे ॥२३०॥ अरे वनचराः शीघ्रं स्थानमेतद्विमञ्चत ।। राज्ञो धर्मावतंसस्य निवासोऽत्र भविष्यति ॥२३१॥ तेषां दुर्वचसा तेन समुत्सार्य शमं बलात् । भीमान्त:करणे क्रोधः समर्थोऽस्थाप्यत क्षणात् ॥२३२॥ . 15 25 १. विधाय प्रतित्रये० । २. अश्वानां समूहः । ३. वर्षासु जाम्बु प्रतिद्वये० ।
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy