________________
[३९९
नवमः सर्गः । पाण्डवानां धर्मसाधना ॥]
ततः कृत्याप्रणतो वः प्राणसंदेहकृद् ध्रुवम् । दुरात्मनो द्विजादस्मादागतोऽसावुपद्रवः ॥२०७॥ तदस्या विपदः सौम्याः ! प्रतीकाराय धावत । महात्मस्वपि निस्त्रिंशं पिशुनानां हि मानसम् ॥२०८॥ इत्युदीर्य मनौ तस्मिन्स्वस्थानमुपजग्मुषि । सौष्ठवाज्ज्येष्ठमगदद् गदापाणिर्वृकोदरः ॥२०९॥ एतु कृत्या द्रुतं द्रष्टुमहमस्मि समुत्सुकः । चूर्णयिष्यामि कणशस्तां क्षुद्रां गदयाऽनया ॥२१०॥ ज्येष्ठोऽथ तमभाषिष्ट सत्यमेव वचस्तव । सा चेत्ते दृक्पथं यायाद् व्यापाद्येत तदा त्वया ॥२११॥ रक्षोजातिस्त्वतिक्षुद्रा नानाकूटपटीयसी । अदृश्या वैरिणी हन्तुं शक्या नोर्जस्वलैरपि ॥२१२॥ कुरु कर्णे ममोपायं सर्वापायनिवारणम् । आयान्ति विपदः कर्मदूताहूता हि देहिनाम् ॥२१३॥ तच्च कर्म निराकर्तुमलङ्कर्मीणविक्रमः । एक एव परं धर्मो वत्स ! चेतसि धार्यताम् ॥२१४॥ निःशेषदुःखमूलानि यः कर्माणि निकृन्तति । धर्मोऽस्माकं स एवैकः स चेतुमुचितोऽधुना ॥२१५॥ एतां धर्मसुतस्याज्ञां कृत्वा मौलिशिखामणिम् । सर्वे सुकृतचर्यासु चक्रुरुज्जागरं मनः ॥२१६॥ अशनं स्वादिमं सर्वं खाद्यं त्रिविधमप्यमुम् । परितत्यजुराहारं ते सर्वे सप्तवासरीम् ॥२१७।। एकतानाः स्मरन्तस्ते पञ्चानां परमेष्ठिनाम् । उटजं परितो भेजुर्निर्जनां पृथिवीं पृथक् ॥२१८॥ प्रलम्बितभुजास्तत्र नासानिहितलोचनाः । तस्थुः प्रतिमया जातु देहेनोवंदमेन ते ॥२१९॥
१. निर्दयम् । २. गतेसति । ३. अतिबलवद्भिः ।