________________
10
३९८]
[ पाण्डवचरित्रमहाकाव्यम् । नारदेन कथितो वृत्तान्तः ॥ गतस्तत्र न चिक्रीड सव्रीड: किंत्वधोमुखः । शयानः शयनीयेऽसौ निनाय दिवसान्बहून् ॥१९४।। अथ जागरितोत्साहः सचिवैः स्वैर्वचस्विभिः । पटहं दापयामास हस्तिनापुरवीथिषु ॥१९५॥ यः कश्चिदस्त्रैः शस्त्रैश्च मन्त्रैस्तन्त्रैश्च शक्तिमान् ! निहन्ति सप्तरात्रेण पाण्डवान् परिपन्थिनः ॥१९६॥ तुष्टो दुर्योधनस्तस्मै स्तम्बेरममनोरमम् । विश्राणयति राज्यामिति सोऽस्मिन्नघोषयत् ॥१९७॥ युग्मम् । सादरः सोदरोऽभ्येत्य पुरोचनपुरोधसः । डिण्डिमं वारयामास क्रूरचेताः सुरोचनः ॥१९८।। ततः पाटहिकैर्नीतः स दुर्योधनसन्निधौ । उद्धतः कथयामास शक्तिव्यतिकरं निजम् ॥१९९॥ आराधिता मया पूर्वमस्ति कृत्येति राक्षसी । क्रुद्धाऽसौ ग्रसते क्षौणी षट्खण्डी किमु पाण्डवान् ॥२००॥ विधास्यामि तवाभीष्टमह्नि तद्देव ! सप्तमे । ममापि पाण्डवेया हि पुरोचनवधाद्दिषः ॥२०१॥ वाचं सुरोचनस्यैतामवधार्य सुयोधनः । मुदं प्रसाददानेन लम्भयामास तं तदा ॥२०२॥ तेन तेनोपचारेण तैस्तैश्च जपकर्मभिः । कृत्याऽऽराधनमाधातुं सोऽपि गेहमुपाययौ ॥२०३॥ अहं चेहागमं भीम ! युष्माकमतिपीडया । आजन्माभ्यस्तदुष्कृत्या कृत्या साऽत्यन्तदुर्जया ॥२०४॥ अतिरौद्रमनोवृत्तेरन्यरक्षोविलक्षणम् । तस्या भीष्मत्वमद्वैतं विख्यातं भुवनत्रये ॥२०५॥ सोऽप्युपासितदुर्विद्यादीप्रो विप्रः सुरोचनः । अतिक्रूरमनाः कामं दक्षः क्षुद्रेषु कर्मसु ॥२०६।।
15
१. उद्यतः इत्यपि पाठः । २. प्रसादयामास प्रतौ ।