________________
[३९१
नवमः सर्गः । दुर्योधनस्य श्याममुखता ॥]
अलङ्कृतानि सन्नद्धैर्भटैर्गच्छन्ति दूरतः । पुरो विमानवृन्दानि ददृशुः पार्थसैनिकाः ॥१०३।। तन्मध्ये सानुजं बद्धं संवर्मितचमूवृतम् । दृष्ट्वा दुर्योधनं जिष्णुर्वेगात् तानन्वधावत ॥१०४॥ ते पार्थाग्रेसरैरुक्ता रे रे ! तिष्ठत तष्ठत । बन्धुदुर्योधनस्यायमागादनुपदी हि वः ॥१०५॥ खेचराणामभूत्तेषां वचनं तद्विषोपमम् । नव्यपीयूषगण्डूषतुल्यं दुर्योधनस्य तु ॥१०६॥ ततः फाल्गुनवर्गीणाः पश्यन्तो लोतमात्मनः । समं तैः खेचरैर्योद्धमारभन्त खरैः शरैः ॥१०७॥ स्वामिनः कीर्तिसर्वस्वं परिवृत्य सुयोधनम् । शौण्डीरमानिनस्तेऽपि प्रत्ययुध्यन्त खेचराः ॥१०८॥ लग्नेऽत्र सैन्ययोर्युद्धे कपिकेतुरुदायुधः । अभ्यर्णमभ्यमित्रीणः प्रेक्षांचक्रे सुयोधनम् ॥१०९॥ सोऽपि फाल्गुनमालोक्य दध्यौ ध्यामलिताननः । मृत्युमेवाधुना धातः ! क्रुद्धः किं न करोषि मे ॥११०॥ यन्मे बन्दिग्रहादस्मादर्जुनेन विमोचनम् । हृन्मर्मभेदकृन्नित्यं मृत्योरप्यधिकं हि तत् ॥१११॥ इति चिन्तापरे तस्मिन्क्रोधाद्विद्याधरेश्वरः । तस्यैवाभ्यर्णमभ्येत्य स्थितोऽद्राक्षीत्पुरोऽर्जुनम् ॥११२॥ विनिवार्य ततो युद्धं धार्तराष्ट्रस्य पश्यतः । स गत्वा भूमिलुठनैरपतत् पार्थपादयोः ॥११३।। उत्थाप्यालिङ्गितः स्नेहान्निबिडं पाण्डुसूनुना । सोऽत्यन्तविनयी नीचैर्निविष्टो विष्टरे पुनः ॥११४॥ चित्राङ्गद ! कथा केयमिति पृष्टः किरीटिना । कथयामास सोऽप्युच्चैर्धार्तराष्ट्रस्य शृण्वतः ॥११५॥
१. चौर्यधनम् । २. शत्रुसंम्मुखगन्ता । ३. श्याममुखः ।