________________
३९२]
[पाण्डवचरित्रमहाकाव्यम् । चित्राङ्गदस्य कथनम् ॥ कुमार ! त्वद्विसृष्टोऽहं स्वां गच्छन्नगरी पुरा । मार्गे नारदमद्राक्षं मूर्जाऽस्प्राक्षं च तत्क्रमौ ॥११६॥ सोऽथ मां मुदितोऽवादीच्चित्राङ्गद ! कथं चिरात् । दृष्टोऽस्यतीव सोत्कण्ठं मनो मे सङ्गमाय ते ॥११७॥ अजल्पिषमृषीन्द्रं तमिन्द्रकीलशिलोच्चये । आदिनाथनमस्यार्थं गतोऽस्मि भगवन् पुरा ॥११८॥ कीतिकोलाहलं तत्र किरातविजयोर्जितम् । पार्थस्याकर्ण्य यातोऽस्मि तं द्रष्टुं रथनूपुरम् ॥११९॥ दृष्टे तस्मिन्निजान्बन्धून् व्यस्मार्षमतिविस्मितः । स मे तत्र गुरुर्भूत्वा धनुःपारायणं जगौ ॥१२०।। खेचराः शतमन्येऽपि प्रययुस्तस्य शिष्यताम् । तस्याहमेव शिष्येषु प्रियोऽस्मि निखिलेष्वपि ॥१२१॥ इदानीं तु बहोः कालाद्वन्धूनां मीलितोऽर्जुनः । निजामहमयं यामि तद्विसृष्टश्चिरात्पुरीम् ॥१२२॥ जगाद नारदः स्मृत्वा चित्राङ्गद ! सुयोधनः । त्वद्गुरुं बन्धुभिः सार्धं हन्त हन्तुमुपेत्यसौ ॥१२३॥ पश्चादपि गुरुप्रीत्या विधातासि शचं यदि । अधुनैव प्रतीकारस्तच्चित्राङ्गद ! चिन्त्यताम् ॥१२४।। मुनावेवं वदत्येव खेचरानुचरो मम ।। आगत्य कथयामास क्रोधाग्निसमिधं कथाम् ॥१२५।। अस्ति क्रीडावनं देव ! यत्ते द्वैतवनान्तिके । तदेत्योपाद्रवडूरं विरोधीव सुयोधनः ॥१२६।। प्रियाभिरपि ते देव ! लूना यस्य न पल्लवाः । आकन्दं तेन माकन्दखण्डश्चक्रे स खण्डशः ॥१२७॥ यदीयकुसुमामोदं वेद मूढैव तावकः । विलूनप्रसवाः प्रापुश्चम्पकास्तेऽनुकम्प्यताम् ॥१२८॥
15
25
१. स्मित्वा इत्यपि पाठः । २. क्रोधाग्नौ काष्टसमाम् । ३. मूलपर्यन्तम् । ४. वेत्ति ।